This page has not been fully proofread.

तृतीयाभ्यासः
 
૨૮૭
 
निस्सङ्ख्यस्फुरदुत्तरोत्तरचमत्कारासु धारासु ते
वाचामक्षरमक्षरं त्रिजगतीवाग्गर्वसर्वङ्कषम् ।
श्रोतुं लालयितुं पुनः प्रतिसमाधातुं च वा किञ्चिद-
प्यर्वाञ्चः क इमे वयं यदि परं देवस्य वाचां निधिः ॥७॥
 
परं त्विदमेकमनुस्मारयामि ।
 
आदिष्टं यदध्यक्षमेव नस्समस्तानां सन्धानं कुरुतासुरैरिति
शार्ङ्गधन्वना परमेष्ठिने, यदपि च तेन तुभ्यम्
 
बृहस्पतिं स्तौति ॥ निस्सङ्ख्येति ॥ निष्क्रान्तासङ्ख्याया निस्सङ्ख्या: । 'निरादयः
क्रान्ताद्यर्थे पञ्चम्या' इति समास: । पर्याप्तसङ्ख्यारहिता इत्यर्थः । एवंविधा
उत्तरोत्तरमुपर्युपरि चमत्काराः विच्छित्तिविशेषाः, यासां ता इति नीलोज्ज्वलवपुरिति-
बत् त्रिपदबहुव्रीहिः । तथाविधासु ते तव वाचां धारासु परम्परासु । तिस्रश्च ता
जगत्यश्चेति समानाधिकरणसमासः । 'जगती भुवने क्ष्मायाम्' इति विश्वः ।
त्रिभुवनानीत्यर्थ: । तासां लक्षणया तत्स्थजनानां यो वाग्गव: वाक्प्रयुक्तोऽ-
हङ्कारः वाग्भिर्वयमेव कुशला इत्यभिप्रायः । अथवा, वाचामहङ्कारः वयमेव
रमणीया इत्यभिमान इति भावः । तस्य सर्व कषतीति सर्वकषम् । 'सर्वकूला-
ब्भ्रकरीषेषु कष:' (3-2-42) इति खचि मुम् । वाम्गर्वसर्वस्वनाशकमिति भावः ।
अक्षरमक्षरं, वृक्षं वृक्ष सिञ्चतीतिवत् वीप्सायां द्विर्भावः । श्रोतुं लालयितुं बहुमन्तुं
किञ्चित् प्रतिसमाधातुं समाधान कर्तुम् अर्वाञ्च जघन्या इमे वयं के कथम्भूता
इत्यर्थः । देवो यदि स्वामी वित्यर्थः । भवानित्यभिप्रायः । स प्रसिद्धः परं वाचां
निधि: निदानं वाचां खनिरिति भावः ॥ परमिति । परन्तु तथापि इदं भगवदा-
देशरूपम् । एकं केवलं अनुस्मारयामि न त्वादिशामीति भावः । 'गतिबुद्धि-
(1-4-52) इत्यादिना अणिकर्तुः कर्मत्वम् । 'स्मृ आध्याने' इति धातोर्णिचि
रूपम् ॥ आदिष्टमिति ॥ समस्तानां सर्वेषां नोऽस्माकं अध्यक्ष प्रत्यक्षमेव
असुरैस्सन्धान सन्धि कुरुतेति शार्ङ्गधन्वना वासुदेवेन परमेष्ठिने ब्रह्मणे यदादिष्ट
आज्ञतं तेन परमेष्ठिना तुभ्यं भवते च तत्केवलमनुस्मारयामीति पूर्वेणान्वयः । फलि-