2023-06-05 16:40:13 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
इति युक्तियुक्तमुपपाद्य विरमति देवगुरौ, विहस्तेषु च समस्तेषु दैवतेषु
कृतमुखस्स्वयं शतमखः किञ्चिदिदमाचचक्षे । 'भगवन्नेवमेवैतद्यदभिहितं
भवता । किंतु ।
"
परिकीर्तितः । संप्रदानाद्भवति य उपहारः स उच्यते ॥ सन्तानसन्धिर्विज्ञेयो
वार्याद्यशनपूर्वकः । सद्भिस्सङ्गतसन्धिस्तु मैत्रीपूर्व उदाहृतः ॥ भाष्यामे-
कार्थसंसिद्धि समुद्दिश्य क्रियेत यः । स उपन्यासकुशलैरुपन्यास उदाहृतः ॥
पुनर्यः क्रियते सन्धिः प्रतीकारस्स उच्यते । एकार्थं सम्यगुद्दिश्य यात्रां यत्र
हि गच्छतः ॥ स संहितप्रयाणस्तु संयुक्तस्सन्धिरुच्यते । आवयोर्योगमुख्याभ्या-
मेषोऽर्थस्साध्यतामिति ॥ यस्मिन् पणश्च क्रियते स सन्धिः पुरुषान्तरः ।
विजिगीषोः पुरः कश्चित् दृश्यते नैव पूरुषः ॥ सोऽदृष्टनर इत्युक्तस्सद्भिनतिविशारदैः ।
तत्र भूम्येकदेशेन पणेन रिपुरूर्जितः ॥ सन्धीयते सन्धिविद्भिरादिष्टस्सन्धिरुच्यते ।
आमिषीक्रियते चात्मा तदामिष उदाहृतः ॥ क्रियते प्राणरक्षार्थं सर्वदानमुपग्रहः ।
कोशांशेनावकुप्येन सर्वकोशेन वा पुनः ॥ शेषप्रकृतिरक्षार्थ परिक्रय उदाहृतः ।
भुवां सारवतीनां च दानमुच्छिन्न उच्यते । एतत्सर्वं त्वया उपद्रवेण गृहीतमेवेति
परदूषणसन्धिः । किञ्च, 'परिच्छिन्नं फलं यत्र स्कन्धं स्कन्धे विलीयते ।
स्कन्धोपनयनं प्राहुस्सन्धि सन्धिविदो जनाः ॥' इत्याह कामन्दकः । तथाच
सन्धीनां निमित्तस्य कस्याप्यभावाद्दा नवैस्स हास्माकं सन्धिर्न घटत इति भावः ।
देवगुरौ सुराचार्ये इतीत्थं युक्तयस्साधकबाधकप्रमाणोपन्यासा: तैर्युक्तं सहितं यथा
तथा उपपाद्य निरूपणं कृत्वा विरमति तूष्णींभूते सति । 'व्याङ्परिभ्यो
रम:' (1-3-83) इति विपूर्वस्य रमते: परस्मैपदित्वाल्लटश्शत्रादेशः । समस्तेषु
निखिलेषु दैवतेषु देवेषु । 'बृन्दारका दैवतानि' इत्यमरः । विहस्तेषु व्याकुलेषु
सत्सु । 'विहस्तव्याकुलौ समौ' इत्यमरः । कृतमुखः कुशल: । 'वैज्ञानिक:
कृतमुखः कृती कुशलः' इत्यमरः । शतमखः इन्द्रः किश्चित् स्वल्पम्
इदं वचनम् आचचक्षे जगाद । तदेवाह । हे भगवन् भवता यत् अस्मत्स्वरूप-
मुद्दिश्य अभिहितं कथितं तदस्मत्स्वरूपं एवं एतद्रीतिकं मत्स्वरूपानुसारेणैव
भवानुक्तवानिति भावः । अथवा, भवता त्वया यद्वचनमभिहितं निगदितं तद्वचनं
एवं विद्यमानार्थकं विद्यमानमेवार्थ भवानाहेति भावः । प्रकृतकार्ये प्रवर्तयितुं