This page has been fully proofread twice.

गावोऽश्वाः करिणः स्त्रियो मणिगणाश्शस्त्राणि वस्त्राणि वा
यानि प्राभृतयेम तान्यपहृतान्याक्रम्य तैरेव नः ।
तद्रिक्तेन करेण रिक्ततरया वाचापि चाहं कथं
शक्तः स्यां दनुजेश्वरान् वशयितुं सन्द्रष्टुमप्यन्ततः ॥ ६ ॥'
 
[commentary]
 
तिष्ठेत्युक्ते स्थातव्यम्, उत्तिष्ठेत्युक्ते उत्त्थातव्यम्, एवं सिंहासनाधिपतिष्वपि तेषां वाग्जीवतीति भावः। सर्वैः प्रकारैः सुनिर्वृताः सुखिताः ते अमी दनुभुवः दानवाः भिक्षार्थं तण्डुललाभार्थम् । 'भिक्ष लाभे' इति धातोः पचाद्यचि टाप् । परितः सर्वतः धावता अटता । 'धावु गतौ' इत्यस्माल्लटश्शत्रादेशः । मघवता देवेन्द्रेण सन्धत्य सन्धिं कृत्वा किमीप्सितं कं पुरुषार्थं सम्पादयन्तु प्राप्नुयुः । सम्भावनायां लोट् । सङ्घटयता दूतेनावश्यनेतव्यश्रेष्ठवस्त्वभावात् सर्वशून्यस्सन् तत्र गत्वा तान् वशयितुं न शक्नोमीत्याह ॥ गाव इति ॥ यत् यस्मात्कारणाद्गावो धेनवः, अश्वाः, करिणः गजाः, स्त्रियः सुन्दर्यः, मणीनां रत्नानां गणाः समूहाः शस्त्राणि वस्त्राणि वा एतान्येव यानि वस्तूनि प्राभृतानि कुर्वन्ति प्राभृतयन्तीति 'तत्करोति' इति णिचि लिङि रूपम् । एवञ्च प्राभृतयेम उपायनानि करवाम । 'घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम्' इत्यमरः । नोऽस्माकं तानि वस्तूनि आक्रम्य पराक्रम्य तैः दानवैरपहृतान्येव । तत्तस्मात् । अथवा तद्रिक्तेनेति समस्तं पदं, तैः धेन्वादिवस्तुभिः रिक्तेन शून्येन करेण रिक्ततरया अतिवन्ध्यया वाचा दनुजेश्वरान् दानवेन्द्रान्वशयितुं अधीनान् कर्तुमहं कथं शक्तः समर्थस्स्यां भवेयम् । अन्ततः पर्यवसाने । सार्वविभक्तिकस्तसिः । सन्द्रष्टुमपि तद्दर्शनं कर्तुं वा कथं शक्तः समर्थः स्यामित्यनेनान्वयः । अत्र [^१]कामन्दकः -- 'बलवद्विगृहीतस्सन् नृपोऽनन्यप्रतिक्रियः । आपन्नस्सन्धिमन्विच्छेत् कुर्वाणः कालयापनम् ॥" इत्युक्त्वा, 'कपाल उपसंहारस्सन्तानः सङ्गतस्तथा । उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः । अदृष्टनर आदिष्टः आत्मामिष उपग्रहः । परिक्रयस्तथोच्छिन्नः तथा च परदूषणः ॥ स्कन्धोपायन सन्धिश्च षोडशः परिकीर्तितः ।’ तेषामेव विवरणं 'कपालद्वयवत्सन्धिः कपालः
 
[^१] कामन्दकीयनीतिशास्त्रोक्तान् सन्धित्साहेतून् षोडश कामन्दकदिशैव विवृत्य, तेष्वन्यतमस्य कस्यापि निमित्तस्याभावात् दानवैस्सह सन्धिर्न घटते इति व्याख्यातृदर्शितः हेतुः चतुर्थः ॥