2023-09-13 13:29:14 by Bharadwajraki
This page has been fully proofread twice.
अपि चb ।
प्रवृत्तास्समरकर्मणि भग्नोद्यमाः सर्वतोऽपि सन्धित्सन्ते दूरदर्शिनो लब्धुं कथञ्चिदपि लिप्सितं नतु लब्धमपि नाशयितुम् । पश्यत ।
स्थानाच्च्यावयितुं क्षणात्पुनरपि स्थानेऽभिषेक्तुं च वा
शक्ताः केळिकथान्तरेष्वपि भवन्त्यर्धोद्गता यद्गिरः ।
तेऽमी सर्वसुनिर्वृता दनुभुवस्सन्धाय किं धावता
भिक्षार्थं परितोऽधुना मघवता सम्पादयन्त्वीप्सितम् ॥ ५ ॥
अपि चc ।
[commentary]
विनाशितः इतीति शेषः । श्रूयते हि श्रवणविषयीक्रियते । पुरा खलु रावणस्त्रिलोकविजयावसरे सर्वं विजित्य उदीचीं दिशं गत्वा कुबेरनिधीनपहर्तुकामः प्रतस्थे । तदानीं तदीयपुष्पकमात्रलाभेन परावृत्य स्वपुरीमाप । तदा कुबेरः तेन सन्धित्सुः कञ्चिद्गन्धवसुं नाम किन्नरं प्राहिणोत् । तदागतं श्रुत्वा तदैव घातितवानित्यैतिहासिकी कथाऽत्रानुसन्धेया । ग्रन्थविस्तरभयात्तत्सर्वमिह न लिख्यते ।
अस्माभिस्सह ते सन्धिन्नाभिमन्यन्त इत्यत्र युक्तिमाह ॥ अपि चेति ॥ समरकर्मणि युद्धे प्रवृत्ताः व्यापृताः सर्वतः सर्वप्रकारैरित्यर्थः । भग्नः शिथिलः उद्यमः उद्योगः येषां ते तथाविधा दूरदर्शिनः विचक्षणाः । 'दूरदर्शी दीर्घदर्शी' इत्यमरः । अभीप्सितम् इष्टमर्थं कथञ्चित्कृच्छेणापि लब्धुं सम्पादयितुं सन्धित्सन्ते सन्धातुमिच्छन्ति लब्धं प्राप्तं नाशयितुं नापि सन्धित्सन्त इत्यन्वयः । 'विगृह्य
सुचिरं कालमलब्ध्वा श्रियमात्मवान् । विनिर्गत्य तदा पश्चाल्लब्धं राज्यं क्रमेण तु ॥ सन्धिं कुर्वीत निपुणः न तु लब्धनिनङ्क्षया ।' इति वचनादिति भावः । अस्माभिस्सह तेषां सन्धित्सानुत्पादे हेतुमवगमयन्नाह ॥ पश्यतेति ॥ केळिकथान्तरेषु क्रीडाप्रस्तावावसरेष्वपि अर्धोद्गताः असम्पूर्णविनिर्गताः येषां दानवानां गिरः वाचः स्थानाद्बहुकालादारभ्य प्राप्तसिंहासनाच्चालयितुं स्खलयितुं पातयितुमिति वाऽर्थः । पुनरपि स्थाने तत्रैवेत्यर्थः । अभिषेक्तुं पट्टाभिषेकं कर्तुं च वा
शक्तास्समर्था भवन्ति गच्छेत्युक्ते गन्तव्यम् आगच्छेत्युक्ते आगन्तव्यम्,
b, c. सर्वथाऽनभिलाषः युक्त्युपपादितः द्वितीयो हेतुः, प्राभूतस्योचितस्य वस्तुनोऽद्या भावः तृतीयो हेतुः, मूलकारेण प्रदर्शितः ॥