2023-06-05 16:38:52 by ambuda-bot
This page has not been fully proofread.
भूमिका
श्रीनीलकण्ठदीक्षितेन्द्राणां कृतिर्नीलकण्ठ विजयचम्पूरिदानीं विदुषां पुरतं
उपहारीक्रियते सव्याख्या । गुणालङ्कारादिरमणीयोऽयं ग्रन्थः कवेरनायासेना-
हमहमिकया उपनिपतन्त्या वाग्झर्या लीलयैव निर्मित इति प्रेक्षावतां सुदर्शम् ।
अन्त्रिष्यान्विष्य पदानि, काव्यानि रचयन्तः ग्रन्थकाराः सन्ति बहवः ।
परन्तु -
6
अनाराध्य कालीं अनास्वाद्य गौडीं
विना यन्त्रतन्त्रैः विना शब्दचौर्यम् ।
प्रबन्धं प्रगल्भं प्रभूतं विधातुं
विरिञ्चिप्रपञ्चे मदन्यः कविः कः ॥
इत्यभियुक्तोक्तवत् एतादृशाः सर्वतोधिषणाः कवयो विरलाः ।
कविरयं वैयाकरण इति, अनुपदं प्रयुज्यमानात् सौशब्दचजालात् प्रतीमः ।
दुर्वाससः शापात् नश्वर्य इन्द्रः सुरगुरुसमालोचनया पुनः स्वाराज्यकामः
दानवैः : सह सन्धाय वासुकिं रज्जुं मन्दरं मन्थानं कृत्वा शिवानुग्रहेण विष्णु-
साहाय्येन अम्बुधिं ममन्थ । प्रथमतो हालाहलस्याविर्भावः तस्य क्रौर्येण
त्रिलोकीदाहः तस्यावलीलया परमेश्वरेण पानम् इतरदेवाशक्यविषपानप्रयुक्ता
सर्वैः देवैः कृता ईश्वरस्तुतिः, पश्चात् क्रमेण अप्सर : प्रभृतीनामाविर्भावः,
अहमहमिकया तेषां देवैः स्वीकारः, अन्ते श्रिय आविर्भावः तदनन्तरं
अमृतोत्पत्तिः तस्य देवदानवयोः विभागावसरे युद्धम्, श्रीमहा विष्णुना
मोहिनीरूपधारिणा अमृतस्य देवेभ्य एव दानम् इत्यादि कथावस्तु ।
,
अमृतमथनकथा बहुषु पुराणेषु भारते च प्रसिद्धा ।
'वायुरस्मा उपामन्थत् पिनष्टि स्मा कुनन्नमा ।
केशी विषस्य पात्रेण यदुद्रेणापिबत् सह' इति ऋग्वेदे एव (10-136-7 )
सूचिता इति विज्ञा वदन्ति ।
"दृष्टवा कौस्तुभमप्सरोगणमपि प्रकान्तवादा मिथो
गीर्वाणा: कति वा न सन्ति भुवने भारा दिवः केवलम् "