This page has been fully proofread twice.

धनीयोऽयमर्थः । कथं aनाम दूतदर्शनमप्यसहमानेषु सङ्घटते ।
 
श्रूयत एव हि वैश्रवणेन प्रहितो दूतस्सद्य एव समापितस्सदसि लङ्कापतेः ।
 
[commentary]
 
समाधावथ संस्त्यायाम्' इति नानार्थमाला । अथवा, उपायः कर्मकार्यमिति वाऽर्थः। 'उपायः कर्म चेष्टा च' इत्यमरः । साधुष्वेव सज्जनेष्वेव आयतते प्रयतते, प्रवर्तत इति यावत् । 'सभ्यसज्जनसाधवः' इत्यमरः । सतामेव सन्धेयत्वादिति भावः । अत एव कामन्दकोऽपि सज्जनानेव सन्धेयानाह 'सत्यायधार्मिकानार्यभ्रातृसङ्घातवान् बली । अनेकविजयी चैव सन्धेयास्सप्त पार्थिवाः ॥' इत्युक्त्वा
सत्यादीनाह 'सत्योनुपालया सत्यं सन्धितो नैति विक्रियाम् । प्राणात्ययेऽप्यसन्त्यक्तमर्यादो नैत्यधर्मताम् ॥"' इत्यादिना । पृथग्जनेषु नीचेषु । 'विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः' इत्यमरः । नायतते न प्रवर्तते, असतामसन्धेयत्वादिति भावः । असतोऽसन्धेयानाह कामन्दकः -- 'बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः । भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥ विरक्तप्रकृतिश्चैव
विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः ॥ देवोपहतकश्चैव देवचिन्तक एव च । दुर्भिक्षव्यसनी चैव बिलव्यसनसङ्कुलः ॥ अदेशस्थो बहुरिपुर्युक्तः कालेन यश्च न । सत्यधर्मव्यपेतश्च विंशतिः पुरुषास्त्विमे ॥ एभिस्सन्धि न कुर्वीत विगृह्णीयात्तु केवलम् । एते विगृह्यमाणास्तु ध्रुवं यान्त्यचिराद्वशम् ॥' इति । दुरहङ्कारः दुरहङ्कारभावः तेन दूषितेषु दुष्टेषु दानवेष्वसुरेषु पुनः दूरे तद्विषये सन्धेयत्वाभावात्तेषां सन्धिर्न भवतीति भावः । सन्धिर्न भविष्यतीत्यत्रैवोपपत्त्यन्तरमाह ॥ किञ्चेति ॥ अयं सन्धिलक्षणः अर्थः प्रयोजनं दूतः सन्देशहरः । 'स्यात्सन्देशहरो दूतः' इत्यमरः । तस्य वाग्वचनमेव मुखं तस्य कौशलेन चातुर्येण साधनीयः सम्पादनीयः । 'सन्धित्सुरथ मेधावी प्रापयेद्दूतमन्तिकम् । तन्मुखेनैव निखिलं कार्यमासादयेत्सुधीः ॥"' इति शास्त्रादिति भावः। दूतानां दर्शनमवलोकनमपि असहमानेष्वसम्मन्यमानेषु कथं घटते सज्जते न घटत एवेति भावः । अथ दानवा दूतदर्शनं न सहन्त इति कथं ज्ञातमिति चेदत्राह ॥ श्रूयते इति ॥ वैश्रवणेन कुबेरेण । 'किन्नरेशो वैश्रवणः' इत्यमरः । प्रहितः प्रेषितः दूतः सन्देशहरः लङ्कापतेः रावणस्य सदसि सभायां सद्यः तत्क्षणं समापितः
 
a. सन्धेरशक्यत्वे दानवानां दूतदर्शने सहनाभावपुरावृत्तप्रमाणोपपादितः प्रथमो हेतुः ।