2023-06-05 16:40:12 by ambuda-bot
This page has not been fully proofread.
तृतीया श्वासः
धनीयोऽयमर्थः । कथं नाम दूतदर्शनमप्यसहमानेषु सङ्घटते ।
श्रूयत एव हि वैश्रवणेन प्रहितो दूतस्सद्य एव समापितस्सदसि
लङ्कापतेः ।
समाधावथ संस्त्यायाम्' इति नानार्थमाला । अथवा, उपायः कर्मकार्यमिति वाऽर्थः।
'उपाय: कर्म चेष्टा च' इत्यमरः । साधुष्वेव सज्जनेष्वेव आयतते प्रयतते,
प्रवर्तत इति यावत् । 'सभ्यसज्जनसाधवः' इत्यमरः । सतामेव सन्धेयत्वादिति
भाव: । अत एव कामन्दकोऽपि सज्जनानेव सन्धेयानाह 'सत्यायधार्मिकानार्य -
भ्रातृसङ्घातवान् बली। अनेकविजयी चैव सन्धेयास्सप्त पार्थिवाः ॥' इत्युक्त्वा
सत्यादीनाह 'सत्योनुपालया सत्यं सन्धितो नैति विक्रियाम् । प्राणात्ययेऽप्यस-
अन्त्यक्तमर्यादो नैत्यधर्मताम् ॥" इत्यादिना । पृथग्जनेषु नीचेषु । 'विवर्ण: पामरो
नीच: प्राकृतश्च पृथग्जनः' इत्यमरः । नायतते न प्रवर्तते, असतामसन्धेयत्वादिति
भाव: । असतोऽसन्धेयानाह कामन्दक:- 'बालो वृद्धो दीर्घरोगी तथा
ज्ञातिबहिष्कृतः । भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥ विरक्तप्रकृतिश्चैव
विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मण निन्दकः ॥ देवोपहतकश्चैव
देवचिन्तक एव च । दुर्भिक्षव्यसनी चैव बिलव्यसनसङ्कुलः ॥ अदेशस्थो
बहुरिपुर्युक्त: कालेन यश्च न । सत्यधर्मव्यपेतश्च विंशतिः पुरुषास्त्विमे ॥
एभिस्सन्धि न कुर्वीत विगृह्णीयात्तु केवलम् । एते विगृह्यमाणास्तु ध्रुवं यान्त्यचिरा-
द्वशम् ॥' इति । दुरहङ्कार: दुरहङ्कारभावः तेन दूषितेषु दुष्टेषु दानवेष्वसुरेषु
पुनः दूरे तद्विषये सन्धेयत्वाभावात्तेषां सन्धिर्न भवतीति भावः । सन्धिन
भविष्यतीत्यत्रैवोपपत्त्यन्तरमाह ॥ किञ्चेति ॥ अयं सन्धिलक्षणः अर्थः प्रयोजनं
दूत: सन्देशहर: । 'स्यात्सन्देशहरो दूतः' इत्यमरः । तस्य वाम्वचनमेव मुख
तस्य कौशलेन चातुर्येण साघनीयः सम्पादनीय: । 'सन्धित्सुरथ मेधावी प्रापयेद्दू-
तमन्तिकम् ! तन्मुखेनैव निखिलं कार्यमासादयेत्सुधीः ॥" इति शास्त्रादिति भावः।
दूतामां दर्शनमवलोकनमपि असहमानेष्वसम्मन्यमानेषु कथं घटते सज्जते न घटतं
एवेति भावः । अथ दानवा दूतदर्शनं न सहन्त इति कथं ज्ञातमिति चेदनाह ॥
श्रूयते इति ॥ वैश्रवणेन कुबेरेण । 'किन्नरेशो वैश्रवणः' इत्यमरः । प्रहितः प्रेषितः
दूत: सन्देशहर: लङ्कापते: रावणस्य सदसि सभायां सद्यः तत्क्षणं समापितः
a. सन्धेरशक्यत्वे दानवानां दूतदर्शने सहनाभावपुरावृत्त प्रमाणोषपादितः प्रथमो हेतुः ।