2023-09-13 13:28:09 by Bharadwajraki
This page has been fully proofread twice.
परन्तु किञ्चिदत्र विवेक्तव्यम् । तथाहि --
अनालोच्य निजां शक्तिमदृष्ट्वा कार्यगाधताम् ।
औत्सुक्यादवगाहन्ते मन्दा मज्जन्ति चातलम् ॥ ४ ॥
सन्धिर्नाम [^१]ऋजूपायस्साधुष्वेवायमायतते न पृथग्जनेषु । दूरे पुनर्दुरहङ्कारदूषितेषु दानवेषु । किञ्च । दूतवाङ्मुमुखकौशलसा-
[commentary]
राजकीयः तत्सम्बन्धीति यावत् । तथाभूतं पुरुषं सेवकजनमिति समुदितार्थः । नियुञ्जते प्रवर्तयन्ति तत्कर्म तद्व्यापारः तस्य सेवकजनस्य कीर्तिदं यशःप्रदं तत्कर्म अलभ्यं लभ्यं न भवतीत्यर्थः । अथवा, अल्पं लभ्यमिति अनुदरा कन्येतिवत् नञः अल्पार्थकत्वम् । तथाचोक्तं -- 'तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाष्षट् प्रकीर्तिताः ॥" इति । कतीनामेव तथाविधानां लाभादिति भावः ॥ परमिति ॥ परन्तु तथापीत्यर्थः । अत्र सन्धिफलकदूत्यविषये किञ्चित् अल्पं विवेक्तव्यं पर्यालोचनीयम् । पर्यालोचनं कुत इति चेदत आह ॥ अनालोच्येति ॥ मन्दाः मूढाः । 'मन्दाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ' इत्यमरः । निजां स्वकीयां शक्तिं सामर्थ्यम् ।
'कासूसामर्थ्ययोश्शक्तिः' इत्यमरः । अनालोच्य अपर्यालोच्य कार्यस्य गाधतां तलस्पर्शित्वं अदृष्ट्वा एवंविधं कार्यं मद्विधेन येनकेनचित्कृतं मयापीदं कर्तुं शक्यमशक्यं वेत्यननुसन्धायेति भावः । कार्यसाधुतामिति पाठे इदं कार्यं साधु समीचीनं स्वामिनस्सुकरं मम वेत्यननुसन्धायेति भावः । कार्यगौरवमिति पाठे इदं कार्यं गुरु महत् स्वामिनः मम वा यशः प्रदमित्यननुसन्धायेति भावः । उत्सुकः इष्टार्थोद्युक्तः । 'इष्टार्थोद्युक्त उत्सुकः' इत्यमरः । तस्य भावः औत्सुक्यम्
तस्मादभिनिवेशादिति यावत् । अवगाहन्ते कार्य इति शेषः । प्रविशन्तीत्यर्थः । तलमधोदेशः तदभिव्याप्यातलमिति 'आङ्मर्यादाभिविध्योः' (२.१.१३) इति समासः । पाताळपर्यन्तमिति यावत् । मज्जन्ति मज्जनं कुर्वन्ति च पुनरुत्थिता न भवन्तीति भावः । अथ पर्यालोचने सम्यक्कृते आवयोस्सन्धिरेव न भविष्यतीत्याह ॥ सन्धिरिति ॥ सन्धिर्नाम सन्धानमिति प्रसिद्धः अयं भवदुक्तः ऋजुरवक्र उपायः समाधानं उभयोः प्राप्तवैरसमाधानमिति भावः । 'उपायः स्यादुपागतौ ।
[^१] असुरैस्सह सन्धिसम्पादनं दुश्शकमित्यत्रोपपत्तीः प्रमाणानि चाह ।