This page has been fully proofread once and needs a second look.

नीलकण्ठविजये लव्याख्याने
 
परन्तु किञ्चिदत्र विवेक्तव्यम् । तथाहि --
 

 
अनालोच्य निजां शक्तिमदृष्ट्वा कार्यगाधताम् ।

औत्सुक्यादवगाहन्ते मन्दा मज्जन्ति चातलम् ॥ ४ ॥
 

 
सन्धिर्नाम '[^१]ऋजूपायस्साधुष्वेवायमायतते न पृथग्जनेषु । दूरे
पुनर्दुरहङ्कारदूषितेषु दानवेषु । किञ्च । दूतवा कुङ्मुमुखकौशलसा-

 
[commentary]
 
राजकीय:यः तत्सम्बन्घीधीति यावत् । तथाभूतं पुरुषं सेवकजनमिति समुदितार्थः ।
नियुञ्जते प्रवर्तयन्ति तत्कर्म तद्व्यापारः तस्य सेवकजनस्य कीर्तिद यश: दं यशःप्र
दं तत्कर्म अलभ्यं लभ्यं न भवतीत्यर्थः । अथवा, अल्पं लभ्यमिति अनुदरा
कन्येतिवत् नञः अल्पार्थकत्वम् । तथाचोक्तं -- 'तत्सादृश्यमभावश्च तदन्यत्वं
तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाष्षट् प्रकीर्तिताः ॥" इति । कतीनामेव
तथाविधानां लाभादिति भावः ॥ परमिति ॥ परन्तु तथापीत्यर्थः । अत्र
सन्धिफलकदूत्यविषये किञ्चित् अरूल्पं विवेक्तव्यं पर्यालोचनीयम् । पर्यालोचनं
कुत इति चेदत आह ॥ अनालोच्येति ॥ मन्दा:दाः मूढाः । 'मन्दाल्पापटुनिर्भाग्या
मन्दाः स्युर्द्वौ तु शारदौ' इत्यमरः । निजां स्वकीयां शक्तितिं सामर्थ्यम् ।

'कासूसामर्थ्ययोश्शक्तिः' इत्यमरः । अनालोच्य अपर्यालोच्य कार्यस्य गाधतां
तलस्पर्शित्वं अदृष्टाट्वा एवंविधं कार्यं मद्विधेन येनकेनचित्कृतं मयापीदं कर्तुं
शक्यमशक्यं वेत्यननुसन्धायेति भावः । कार्यसाधुतामिति पाठे इदं कार्यं साधु
समीचीनं स्वामिनस्सुकरं मम वेत्यननुसन्धायेति भावः । कार्यगौरवमिति पाठे इदं
कार्यं गुरु महत् स्वामिनः मम वा यश:शः प्रदमित्यननुसन्धायेति भावः । उत्सुक:
कः इष्टार्थोद्युक्त:तः । 'इष्टार्थोद्युक्त उत्सुकः' इत्यमरः । तस्य भाव:वः औत्सुक्यम्

तस्मादभिनिवेशादिति यावत् । अवगाहन्ते कार्य इति शेषः । प्रविशन्तीत्यर्थः ।
तलमधोदेशः तदभिव्याप्यातलमिति 'आङ्मर्यादाभिविध्यो:योः' (2-1-13२.१.१३) इति समासः ।
पाताळपर्यन्तमिति यावत् । मज्जन्ति मज्जनं कुर्वन्ति च पुनरुत्थिता न भवन्तीति
भावः । अथ पर्यालोचने सम्यक्कृते आवयोस्सन्धिरेव न भविष्यतीत्याह
॥ सन्धिरिति ॥ सन्धिर्नाम सन्धानमिति प्रसिद्धः अयं भवदुक्तः ऋजुरव
क्र उपाय:यः समाधानं उभयोः प्राप्तवैरसमाधानमिति भावः । 'उपाय:यः स्यादुपागतौ ।
 
1.

 
[^१]
असुरैस्सह् सन्धि सम्पादनं दुश्शकमित्यत्रोपपत्तीः प्रमाणानि चाडू ।
 
ह ।