This page has not been fully proofread.

तृतीयाश्वासः
 
इति प्रार्थितो देवेंरिदमुवाच वाचस्पतिः ।
'नैतावदभिधातव्यम् । नहि किश्चिदवमं नाम कर्मास्ति 'राजोपजीविनाम् ।
तत्तस्य कीर्तिदं कर्म तद्लभ्यं तदीप्सितम् ।
 
राजानः पुरुषं यत्र राजकीयं नियुञ्जते ॥ ३ ॥
 
१८१
 
प्यादौ प्रषाने प्रथमं त्रिषु' इत्यमरः । नः अस्माकं परमुत्कृष्टम् अयनं निलयः,
गम्यस्थानमिति यावत् । अथवा, परमुत्कृष्टम् अयनं मार्गः, सन्मार्ग इति यावत् ।
भवद्द्वारैवास्माकं सर्वकार्यसिद्धिरिति भावः । 'अयनं निलये मार्गे दक्षिणोदगतौ
रवेः' इति नानार्थरत्नमाला । यद्वा परायणं सर्वत्र सङ्गरहित इत्यर्थः । भवानित्य-
स्य विशेषणम् । 'साकल्यासङ्गवचने पारायणपरायणे' इत्यमरः । मदीयसकलस्व-
मित्यर्थों वा बोध्यः । गुरुः उपदेष्टा पिता वा । 'निषेकादीनि कर्माणि यः करोति
यथाविधि । सम्भावयति चान्नेन स विप्रो गुरुच्यते ॥" इति हेमचन्द्रः ।
'जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते
पितरः स्मृताः ॥ इति शास्त्रात्तस्य तत्पितृत्वमिति भावः । सचिवो मन्त्री ।
'मन्त्री धीसचिवोऽमात्यः' इत्यमरः । दैवतम् उपास्यदेवता च । श्रेयस्करजालमेव
त्वमस्माकमिति भावः । अतः कारणाद्वयं तावत् न विद्यते अन्यद्भवदतिरिक्तं
साधनं कार्यसाधकं येषां ते तथाभूतास्सन्तः, त्वदतिरिक्तसहायरहिता इति यावत् ।
त्वां भवन्तमेव अवमं अधमम् । 'रेफयाप्यावमाधमाः ' इत्यमरः । तस्मिन्
कर्मण्यपि, दूत्यरूप इति भावः । वृणीमहे वृतवन्तः स्म ॥ इतीति ॥ इति इत्थं
देवैः प्रार्थितः याचितः वाचस्पति: गुरुः इदं वक्ष्यमाणं वचनं उवाच । तत्किमिति
चेदत आह ॥ नेति ॥ एतावदिदन्नाभिधातव्यं न वक्तव्यमित्यर्थः । कुत इति
चेदत आह ॥ न हीति । हि यस्माद्राजानमुपजीवितुं शीलं येषां ते राजोपजी-
विन: राजायत्तजीविका इत्यर्थः । तेषां अवमं नाम अधममिति प्रसिद्धं किञ्चि-
त्कर्म नास्ति, ततो नाभिधातव्यमिति पूर्वेणान्वयः । राजाज्ञया तेषां उत्तममध्य-
माधम निखिल कर्म कर्तृत्वस्यैव धर्मत्वादिति भावः । राजाभिमतकर्मणः कर्तव्यत्वे
उपपत्त्यन्तरमाह ॥ तदिति ॥ राजानः भूपाः यत्र यस्मिन् कर्मणि राज्ञः अयं
 
-
 
1. "राजोपजीविनां नहि किञ्चिदवमं नाम कर्मास्ति " - इति निन्दाव्याजेन स्तुतिः,
"सेवा श्ववृत्तिराख्याता तस्मात् तां परिवर्जयेत्" "राजसेवा मनुष्याणाम सिधारावलेहनम् ।
पञ्चाननपरिष्वज्ञः व्यालीत्रदनचुम्बनम्" इत्यभियुक्त चूकिरातात् ॥