This page has been fully proofread twice.

॥ अथ तृतीयाश्वासः ॥
 
उपासीना नानाविधिभिरुपहारैश्च विविधैः
शरण्यं लोकानां शशधरकलोत्तंसममराः ।
मृषा सन्धित्सन्तः प्रकृतिकुटिलैर्दानवगणैः
विरिञ्चस्यादेशादवृणुत गुरुं दूत्यविधये ॥ १ ॥
 
'परायणं नः परमं भवान् यतो
गुरुः पुरोधास्सचिवश्च दैवतम् ।
अतो वयं तावदनन्यसाधना
वृणीमहे त्वामवमेऽपि कर्मणि ॥ २ ॥
 
[commentary]
 
अथ भगवदाज्ञानिर्वर्तनाय सन्धिलिप्सुर्वासवः दूत्यं कर्तुं गुरुं प्रार्थयामासेत्याह लोकद्वयेन ॥ उपासीना इति ॥ नानाविधाः ये विषयः मन्त्रानुष्ठानानि तैर्विविधैः अनेकप्रकारैः उपचारैः ध्यानावाहनाद्युपचारैश्च लोकानां भुवनानां 'लोकस्तु भुवने जने' इत्यमरः । शरणे साधुः शरण्यः, संरक्षणधुरीण इत्यर्थः । तं शशधरस्य चन्द्रस्य या कला सैव उत्तंसोऽवतंसः यस्य स तथाभूतं
शिवं उपासीनाः भजमानाः अमराः । प्रकृतिः स्वभावः । 'प्रकृतिः पञ्चभूतेषु स्वभावे सचिवादिषु' इति नानार्थमाला । तया कुटिलाः वक्राः तैः दानवानां गणैः मृषा वितथं सन्धित्सन्तः सन्धातुमिच्छन्तस्सन्तः । लोके ययोस्सन्धिस्तयोरुभयोरपि प्रयोजनं दृष्टम् । प्रकृते सन्धिना देवानां एकेषां प्रयोजने सत्यपि, इतरेषां दानवानां तदभावात्सन्धेः पाक्षिकवैतथ्यमिति भावः । विरिञ्चस्य ब्रह्मणः । 'शतानन्दश्शतधृतिर्विरिञ्चोऽजो विरिञ्चनः' इत्यमरः । आदेशान्नियोगाद् गुरुं वाचस्पतिं दूतस्य कर्म [^१]दूत्यं । 'स्यात्सन्देशहरो दूतो दूत्यं तद्भावकर्मणोः' इत्यमरः । तस्य विधये करणाय अवृणुत वृतवन्तः । 'वृञ् वरणे' इत्यस्मात् कर्तरि लङ् ॥ परायणमिति ॥ पुरोधाः पुरोहितः । 'पुरोधास्तु पुरोहितः' इत्यमरः । भवान् यतः कारणात् प्रथमं आदौ, मुख्यमिति वा । 'सूक्ष्ममध्यात्मम-
 
[^१] दूत्यशब्दनिर्वचनं सप्रमाणं पूर्वं कृतं तत्रैव वेदितव्यम् । श्रीकृष्णोऽपि भारतयुद्धात्पूर्वं दुर्योधनं प्रति दूत्यं कृतवानित्यत्र स्मरणीयम् ॥