2023-08-03 09:21:12 by Bharadwajraki
This page has been fully proofread once and needs a second look.
  
  
  
  ॥ अथ तृतीयाश्वासः ॥
  
  
  
  
  
  
  
   
  
  
  
उपासीना नानाविधिभिरुपहारैश्च विविधैः
  
  
  
  
  
  
  
शरण्यं लोकानां शशधरकलोत्तंसममराः ।
  
  
  
  
  
  
  
मृषा सन्धित्सन्तः प्रकृतिकुटिलैर्दानवगणैः
  
  
  
   
  
  
  
  
  
  
  
विरिञ्चस्यादेशादवृणुत गुरुं दूत्यविधये ॥ १ ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
'परायणं नः परमं भवान् यतो
  
  
  
   
  
  
  
  
  
  
  
गुरुः पुरोधारस्सचिवश्च दैवतम् ।
  
  
  
  
  
  
  
अतो वयं तावदनन्यसाधना
  
  
  
   
  
  
  
  
  
  
  
वृणीमहे त्वामवमेऽपि कर्मणि ॥ २ ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
[commentary]
   
  
  
  
अथ भगवदाज्ञानिर्वर्तनाय सन्धिलिप्सुर्वासवः दूत्यं कर्तुं गुरुं प्रार्थयामा-
  
  
  
  सेत्याह लोकद्वयेन ॥ उपासीना इति ॥ नानाविधा:धाः ये विषय:यः मन्त्रानु-
  
  
  
  ष्ठानानि तैर्विविधैः अनेकप्रकारैः उपचारैः ध्यानावाहनाद्युपचारैश्च लोकानां
  
  
  
   भुवनानां 'लोकस्तु भुवने जने' इत्यमरः । शरणे साधुः शरण्य:यः, संरक्षणधुरीण
  
  
  
   इत्यर्थः । तं शशधरस्य चन्द्रस्य या कला सैव उत्तंसोऽवतंसः यस्य स तथाभूतं
  
  
  
  
  
  
  
शिवं उपासीना:नाः भजमाना:नाः अमरा:राः । प्रकृतिः स्वभावः । 'प्रकृतिः पञ्चभूतेषु
  
  
  
   स्वभावे सचिवादिषु' इति नानार्थमाला । तया कुटिला: वकाःलाः वक्राः तैः
  
  
  
   दानवानां गणैः मृषा वितथं सन्धित्सन्तः सन्धातुमिच्छन्तस्सन्तः । लोके
  
  
  
   ययोस्सन्धिस्तयोरुभयोरपि प्रयोजनं दृष्टम् । प्रकृते सन्धिना देवानां एकेषां
  
  
  
   प्रयोजने सत्यपि, इतरेषां दानवानां तदभावात्सन्धेः पाक्षिकवैतथ्यमिति भावः ।
  
  
  
   विरिञ्चस्य ब्रह्मण:णः । 'शतानन्दश्शतभृधृतिर्विरिञ्चोऽजो विरिञ्चनः' इत्यमरः ।
  
  
  
   आदेशान्नियोगाद् गुरुं वाचस्पतिं दूतस्य कर्म '[^१]दूत्यं । 'स्यात्सन्देशहरो दूतो दूत्यं
  
  
  
   तद्भावकर्मणोः' इत्यमरः । तस्य विधये करणाय अवृणुत वृतवन्तः । 'वृञ् वरणे'
  
  
  
   इत्यस्मात् कर्तरि लङ् ॥ परायणमिति ॥ पुरोधाः पुरोहितः । 'पुरोधास्तु पुरोहित: '
  
  
  
  तः' इत्यमरः । भवान् यतः कारणात् प्रथमं आदौ, मुख्यमिति वा । 'सूक्ष्ममध्यात्मम-
  
  
  
1.
  
  
  
   
  
  
  
[^१] दूत्यशब्दनिर्वचनं सप्रमाणणं पूर्ववं कृतं तत्रैव वेदितव्यम् । श्रीकृष्णोऽपि भारत-
  
  
  
  युद्धात्पूर्ववं दुर्योधनं प्रति दूत्यं कृतवानित्यत्र स्मरणीयम् ॥
  
  
  
   
  
  
  
  
उपासीना नानाविधिभिरुपहारैश्च विविधैः
शरण्यं लोकानां शशधरकलोत्तंसममराः ।
मृषा सन्धित्सन्तः प्रकृतिकुटिलैर्दानवगणैः
विरिञ्चस्यादेशादवृणुत गुरुं दूत्यविधये ॥ १ ॥
'परायणं नः परमं भवान् यतो
गुरुः पुरोधा
अतो वयं तावदनन्यसाधना
वृणीमहे त्वामवमेऽपि कर्मणि ॥ २ ॥
[commentary]
अथ भगवदाज्ञानिर्वर्तनाय सन्धिलिप्सुर्वासवः दूत्यं कर्तुं गुरुं प्रार्थयामा
शिवं उपासी
1.
[^१] दूत्यशब्दनिर्वचनं सप्रमा