This page has not been fully proofread.

॥ अथ तृतीयाश्वासः ॥
उपासीना नानाविधिभिरुपहारैश्च विविधैः
शरण्यं लोकानां शशधरकलोत्तंसममराः ।
मृषा सन्धित्सन्तः प्रकृतिकुटिलैर्दानवगणैः
 
विरिञ्चस्यादेशादवृणुत गुरुं दूत्यविधये ॥ १ ॥
 
'परायणं नः परमं भवान् यतो
 
गुरुः पुरोधारसचिवश्च दैवतम् ।
अतो वयं तावदनन्यसाधना
 
वृणीमहे त्वामवमेऽपि कर्मणि ॥ २ ॥
 
अथ भगवदाज्ञानिर्वर्तनाय सन्धिलिप्सुर्वासवः दूत्यं कर्तुं गुरुं प्रार्थयामा-
सेत्याह लोकद्वयेन ॥ उपासीना इति ॥ नानाविधा: ये विषय: मन्त्रानु-
ष्ठानानि तैर्विविधैः अनेकप्रकारैः उपचारैः ध्यानावाहनाद्युपचारैश्च लोकानां
भुवनानां 'लोकस्तु भुवने जने' इत्यमरः । शरणे साधुः शरण्य:, संरक्षणधुरीण
इत्यर्थः । तं शशधरस्य चन्द्रस्य या कला सैव उत्तंसोऽवतंसः यस्य स तथाभूतं
शिवं उपासीना: भजमाना: अमरा: । प्रकृतिः स्वभावः । 'प्रकृतिः पञ्चभूतेषु
स्वभावे सचिवादिषु' इति नानार्थमाला । तया कुटिला: वकाः तैः
दानवानां गणैः मृषा वितथं सन्धित्सन्तः सन्धातुमिच्छन्तस्सन्तः । लोके
ययोस्सन्धिस्तयोरुभयोरपि प्रयोजनं दृष्टम् । प्रकृते सन्धिना देवानां एकेषां
प्रयोजने सत्यपि, इतरेषां दानवानां तदभावात्सन्धेः पाक्षिकवैतथ्यमिति भावः ।
विरिञ्चस्य ब्रह्मण: । 'शतानन्दश्शतभृतिर्विरिञ्चोऽजो विरिञ्चनः' इत्यमरः ।
आदेशान्नियोगाद् गुरुं वाचस्पतिं दूतस्य कर्म 'दूत्यं । 'स्यात्सन्देशहरो दूतो दूत्यं
तद्भावकर्मणोः' इत्यमरः । तस्य विधये करणाय अवृणुत वृतवन्तः । 'वृञ् वरणे'
इत्यस्मात् कर्तरि लङ् ॥ परायणमिति ॥ पुरोधाः पुरोहितः । 'पुरोधास्तु पुरोहित: '
इत्यमरः । भवान् यतः कारणात् प्रथमं आदौ, मुख्यमिति वा । 'सूक्ष्ममध्यात्मम-
1. दूत्यशब्दनिर्वचनं सप्रमाण पूर्व कृतं तत्रैव वेदितव्यम् । श्रीकृष्णोऽपि भारत-
युद्धात्पूर्व दुर्योधनं प्रति दूत्यं कृतवानित्यत्र स्मरणीयम् ॥