This page has been fully proofread twice.

इति परमुपदेशं देशिको देवतानां
निरवधिकरुणाब्धिर्निर्जरेभ्यो वितीर्य ।
स्वयमपि हृदि गाढं चिन्तयन् इन्दुचूडं
मिषति कमलपीठे पद्मनाभस्तिरोऽभूत् ॥ ४८ ॥
 
अथ यथोपदेशमिन्दिरापतेरादिश्यादेष्टव्यम्, अन्तर्हिते पितामहे, पूर्णमनोरथा दिवौकसः पुरहराराधनकौतूहलेन पुनरासेदुरुपत्यकां परमानन्दमन्थरा मन्दराद्रेः ।
 
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशत-
प्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चान्-
दीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन
श्रीनीलकण्ठदीक्षितेन विरचिते श्रीनीलकण्ठविजये
चम्पुकाव्ये द्वितीय आश्वासः ॥
 
[commentary]
 
वेद्मीत्यर्थः । मद्गिरा मम वाचा त्वं च जानासि वेत्सि मदनुग्रहमहिम्नेति भावः । मूढाः अज्ञाः निर्भाग्या इति वा । 'मूढाल्पापटुनिर्भाग्याः' इत्यमरः । इमे वासवादयः जानन्ति किं न विदन्तीत्यर्थः । तत्तस्मात्सम्यगनुशिष्यतां शिक्ष्यताम् । भावे लोट् ॥ इतीति ॥ निष्क्रान्ता अवधेर्निरवधिः निस्सीमेत्यर्थः । तथाभूता या करुणा कृपा तस्यास्समुद्रः देवतानां ब्रह्मादीनां देशिकः गुरुः पद्मनाभः वासुदेवः इति एवंप्रकारं परं उपदेशं निदेशं निर्जरेभ्यो देवेभ्यो वितीर्य दत्त्वा स्वयं पद्मनाभः हृदि मनसि इन्दुचूडं चन्द्रशेखरं गाढं नितान्तं चिन्तयन् ध्यायन् सन् कमलपीठे पद्मसम्भवे ब्रह्मणि मिषति पश्यति सति तिरोऽभूत् अन्तरधात् ॥ अथेति ॥ अथ हर्यन्तर्धानानन्तरं पितामहे ब्रह्मणि इन्दिरापतेर्लक्ष्म्याः पतेर्नारायणस्य सम्बन्धि आदेष्टव्यं वक्तव्यम्, आदेशं निदेशं यथोपदेशमुपदेशमनतिक्रम्येत्यर्थः । आदिश्य अभिधाय । नियोगं कृत्वेति भावः । अन्तर्हिते अन्तर्धानं गते सति, पूर्णः सफलः मनोरथः वाञ्छा येषां ते तथाभूता अत एवानन्दमन्थराः आनन्दतुन्दिलाः दिवौकसो देवाः पुरहरः त्रिपुरान्तकः तस्याराधनं तस्मिन् कुतूहलेन कौतुकेन पुनः मन्दराद्रेरुपत्यकामासन्नभूमिमासेदुः आययुः ॥
 
इति श्रीमद्भारद्वाजवेल्लालमहादेवसूरिविरचिते नीलकण्ठविजयव्याख्याने
विबुधानन्दाख्याने
द्वितीयाश्वासविवृतिः ॥