2023-06-05 16:40:11 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः
इति परमुपदेशं देशिको देवतानां
निरवधिकरुणाब्धिर्निर्जरेभ्यो वितीर्य ।
स्वयमपि हृदि गाढं चिन्तयन् इन्दुचूडं
मिषति कमलपीठे पद्मनाभस्तिरोऽभूत् ॥ ४८ ॥
अथ
यथोपदेशमिन्दिरापतेरादिश्यादेष्टव्यम्, अन्तर्हिते पितामहे,
पूर्णमनोरथा दिवौकसः पुरहराराधनकौतूहलेन पुनरासेदुरुपत्यकां
परमानन्दमन्थरा मन्दराद्रेः ।
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशत-
प्रबन्ध निर्वाह कश्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चान्-
दीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन
श्रीनीलकण्ठदीक्षितेन विरचिते श्रीनीलकण्ठविजये
चम्पुकाव्ये द्वितीय आश्वासः ॥
१७९
वेद्मीत्यर्थः । मद्गिरा मम वाचा त्वं च जानासि वेत्सि मदनुग्रह महिम्नेति भावः ।
मूढाः अज्ञाः निर्भाग्या इति वा । 'मूढाल्पापटुनिर्भाग्याः' इत्यमरः । इमे वास-
वादय: जानन्ति किं न विदन्तीत्यर्थः । तत्तस्मात्सम्यगनुशिष्यतां शिक्ष्यताम् ।
भावे छोट् ॥ इतीति ॥ निष्कान्ता अवधेर्निरवधिः निस्सीमेत्यर्थः । तथाभूता या
करुणा कृपा तस्यास्समुद्रः देवतानां ब्रह्मादीनां देशिक : गुरु: पद्मनाभ: वासुदेवः
इति एवंप्रकारं परं उपदेशं निदेशं निर्जरेभ्यो देवेभ्यो वितीर्य दत्त्वा स्वयं पद्मनाभः
हृदि मनसि इन्दुचूडं चन्द्रशेखरं गाढं नितान्तं चिन्तयन् ध्यायन् सन् कमलपीठे
पद्मसम्भवे ब्रह्मणि मिषति पश्यति सति तिरोऽभूत् अन्तरधात् ॥ अथेति ॥
अथ हर्यन्तर्धानानन्तरं पितामहे ब्रह्मणि इन्दिरापतेर्लक्ष्म्याः पतेर्नारायणस्य
सम्बन्धि आदेष्टव्यं वक्तव्यम्, आदेशं निदेशं यथोपदेशमुपदेशमनतिक्रम्येत्यर्थः ।
आदिश्य अभिधाय । नियोग कृत्वेति भावः । अन्तर्हिते अन्तर्धानं गते सति,
पूर्ण: सफल: मनोरथ: वाञ्छा येषां ते तथाभूता अत एवानन्दमन्थरा:
आनन्दतुन्दिला: दिवौकसो देवाः पुरहर: त्रिपुरान्तकः तस्याराधनं तस्मिन् कुतूह-
लेन कौतुकेन पुनः मन्दराद्रेरुपत्यकामासन्नभूमिमासेदुः आययुः ॥
इति श्रीमद्भारद्वाजवेल्लालमहादेवसूरिविरचिते नीलकण्ठविजयव्याख्याने
विबुधानन्दाख्याने द्वितीया श्वासविवृतिः ॥