This page has been fully proofread twice.

सन्धानं कुरुतासुरैः प्रथमतो मन्थानमुर्वीधरं
कृत्वा मन्दरमर्णवे क्षिपत ते यूयं समेतास्ततः ।
बद्ध्वा वासुकिनाऽथ मन्थत ततस्सम्पत्स्यते या सुधा
तामास्वाद्य गमिष्यथाप्यमरतां यूयं न वश्शत्रवः ॥ ४६॥
 
परन्तु भवितात्र दुष्परिहरः प्रत्यूहः, परिहरिष्यते च प्रसादादेव देवदेवस्य तदद्यप्रभृति विशिष्यावलम्बध्वमम्बिकारमणं शरणमिति ।
 
जानाम्यहमुमाकान्तं जानासि त्वं च मद्गिरा ।
जानन्ति किमिमे मूढास्तत्सम्यगनुशिष्यताम् ॥ ४७॥
 
[commentary]
 
कदर्थनानीति सत्यमेवाह अवदः । भवद्योगान्न मध्यमः । अस्माकमग्रतः स्थितिः अलम् इदं अवहितस्सन् गृहाण । किंच सर्वानखिलान् अमरान्, देवान् आदिश आज्ञापय इत्युपदिष्टवानित्यर्थः ॥ सन्धानमिति ॥ प्रथमतः प्रथमं असुरैस्सह सन्धानं सन्धिं कुरुत । सन्धिं कृत्वैव सर्वनिर्वाहं करिष्यथेत्यर्थः । ततोऽनन्तरं समेताः मिळिताः यूयं देवाः ते असुराः अथवा यूयं समेतास्सन्त इति योजना । मन्दरं तन्नामकमुर्वीधरं पर्वतम् । मन्थानं मन्थनदण्डम् । 'वैशाखमन्थमन्थानमन्थनो मन्थदण्डकः' इत्यमरः । कृत्वा अर्णवे क्षिषत स्थापनं कुरुत । अथ अनन्तरं तमद्रिं वासुकिना बद्ध्वा वासुकिसर्पेण वेष्टनं कृत्वा मन्थत मन्थनं कुरुत । ततः मन्थनानन्तरं या सुधा यदमृतं सम्पत्स्यते उत्पन्ना भविष्यति ताम् अमृतम् आस्वाद्य पीत्वा यूयं देवा अमरताम् अमरत्वं गमिष्यथ प्राप्ता भविष्यथ । वः युष्माकं शत्रवः अरयः असुराः अमरताममरत्वं न गमिष्यन्तीति पुरुषव्यत्यासेनान्वयो बोध्यः । वक्तव्यमुक्त्वा फलप्राप्तिप्रतिबन्धकनिवृत्त्युपायमुपदिशतीत्याह ॥ परं त्विति ॥ अत्र अस्मिन् कार्ये दुःखेन परिहर्तुमशक्यः दुष्परिहरः दुर्निवार इत्यर्थः । प्रत्यूहः विघ्नः । 'विघ्नोऽन्तरायः प्रत्यूहः । इत्यमरः । भविता भविष्यति । स विघ्नो देवदेवस्य महादेवस्य प्रसादादनुग्रहात्परिहरिष्यते निवारयिष्यत एव । तत्तस्मादद्यप्रभृत्येतत्क्षणमारभ्य अम्बिकारमणम्
अम्बिकायाः पार्वत्याः पतिम् । 'मृडानी चण्डिकाऽम्बिका' इत्यमरः । शरणं रक्षकम् । विशिष्य अधिकमित्यर्थः । अवलम्बध्वम् इतीत्थमुपदिदेशेत्यनेनान्वयः ॥ जानामीति ॥ अहं उमायाः पर्वतवर्धन्याः कान्तं पति शिवं जानामि तत्त्वतो