2023-08-02 09:45:23 by Bharadwajraki
This page has been fully proofread once and needs a second look.
नीलकण्ठविजये सॅव्याख्याने
कृत्वा मन्दरमर्णवे क्षिपत ते यूयं समेतास्ततः ।
बद्ध्वा वासुकिनाऽथ मन्थत ततस्सम्पत्स्यते या सुधा
तामास्वाद्य गमिष्यथाप्यमरतां यूयं न वश्शत्रवः ॥ ४६॥
परन्तु भवितात्र दुष्परिहरः प्रत्यूहः, परिहरिष्यते च प्रसादादेव
जानाम्यहमुमाकान्तं जानासि त्वं च मद्
जानन्ति किमिमे मूढास्तत्सम्यगनुशिष्यताम् ॥ ४७॥
[commentary]
कदर्थनानीति सत्यमेवाह अवदः । भवद्योगान्न मध्यमः । अस्माकमग्रतः स्थितिः
अम्बिकायाः पार्वत्याः पतिम् । 'मृडानी चण्डिकाऽम्बिका' इत्यमरः । शरणं
-