2023-06-05 16:40:11 by ambuda-bot
This page has not been fully proofread.
३७८
नीलकण्ठविजये सॅव्याख्याने
सन्धानं कुरुतासुरैः प्रथमतो मन्थानमुर्वीधरं
कृत्वा मन्दरमर्णवे क्षिपत ते यूयं समेतास्ततः ।
बद्ध्वा वासुकिनाऽथ मन्थत ततस्सम्पत्स्यते या सुधा
तामास्वाद्य गमिष्यथाप्यमरतां यूयं न वश्शत्रवः ॥ ४६॥
परन्तु भवितात्र दुष्परिहरः प्रत्यूहः, परिहरिष्यते च प्रसादादेव
देवदेवस्य तदद्यप्रभृति विशिष्यावलम्बध्वमम्बिकारमणं शरणमिति ।
जानाम्यहमुमाकान्तं जानासि त्वं च मद्विरा ।
जानन्ति किमिमे मूढास्तत्सम्यगनुशिष्यताम् ॥ ४७॥
कदर्थनानीति सत्यमेवाह अवदः । भवद्योगान्न मध्यमः । अस्माकमग्रतः स्थितिः
अलम् इदं अवहितस्सन् गृहाण । किंच सर्वानखिलान् अमरान्, देवान् आदिश
आज्ञापय इत्युपदिष्टवानित्यर्थः ॥ सन्धानमिति ॥ प्रथमतः प्रथमं असुरै-
स्सह सन्धान सन्धि कुरुत । सन्धि कृत्वैव सर्वनिर्वाहं करिष्यथेत्यर्थः ।
ततोऽनन्तरं समेताः मिळिता: यूयं देवाः ते असुराः अथवा यूयं
समेतासन्त इति योजना मन्दरं तन्नामक मुर्वीघरं पर्वतम् । मन्थानं मन्थन-
दण्डम्। 'वैशाखमन्थमन्थानमन्थनो मन्थदण्डकः' इत्यमरः । कृत्वा अर्णवे
क्षिषत स्थापनं कुरुत । अथ अनन्तरं तमद्रिं वासुकिना बद्धा वासुकिसर्पेण वेष्टनं
कृत्वा मन्थत मन्थनं कुरुत । ततः मन्थनानन्तरं या सुधा यदमृतं सम्पत्स्यते
उत्पन्ना भविष्यति ताम् अमृतम् आस्वाद्य पीत्वा यूयं देवा अमरताम् अमरत्वं
गमिष्यथ प्राप्ता भविष्यथ । वः युष्माकं शत्रवः अरथः असुराः अमरताममरत्वं न
गमिष्यन्तीति पुरुषव्यत्यासेनान्वयो बोध्यः । वक्तव्यमुक्त्वा फलप्राप्तिप्रतिबन्धक-
निवृत्त्युषायमुपदिशतीत्याह ॥ परं त्विति ॥ अत्र अस्मिन् कार्ये दुःखेन परिहर्तुम-
शक्य: दुष्परिहर दुर्निवार इत्यर्थ: । प्रत्यूहः विघ्नः । 'विघ्नोऽन्तरायः प्रत्यूह : '
इत्यमरः । भविता भविष्यति । स विघ्नो देवदेवस्य महादेवस्य प्रसादादनुग्रहात्
परिहरिष्यते निवारयिष्यत एव । तत्तस्मादद्यप्रभृत्येतत्क्षणमारभ्य अम्बिकारमणम्
अम्बिकायाः पार्वत्याः पतिम् । 'मृडानी चण्डिकाऽम्बिका' इत्यमरः । शरणं
रक्षकम् । विशिष्य अधिकमित्यर्थः । अवलम्बध्वम् इतीत्थमुपदि देशेत्यनेनान्वयः ॥
जानामीति ॥ अहं उमायाः पर्वतवर्धन्याः कान्तं पति शिवं जानामि तस्त्वंतो
-