This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः
 
१७७
 
अपि च ।
 

 
के देवाः के दनुजाः किं जगदेवेदमन्ततः कोऽहम् ।

परिहृत्य विमोहमिमं पालय दासोऽस्मि दासोऽस्मि ॥ ४५ ॥

 
इति कटाक्षपातेन कमलायाः परिग्रहेण च भगवतः प्रतिबुध्य
तत्त्वमुदासीने पद्मसम्भवे, प्रपञ्चपाञ्चालिकानटनसूत्रधार :रः परमपुरुष:
षः सर्वपथीनया महामायया तमाच्छादयन्, कर्तव्यमस्योपदिदेश ।
 

 
'सत्यमेव भवानाह कदर्थनान्येव कदर्थनानि' इति अलमेव ह्यग्रत-
स्स्थितिरस्माकम्, अवहितो गृहाणेदम् आदिश च सर्वानमरान् ।
 
,
 

 
[commentary]
 
पादसेवा । एवकारो भिन्नक्रम:मः । लब्धमेव प्राप्तमेव । अतः ल्यब्लोपे पञ्चमी ।
एतत्तव पादसेवनं विहायेत्यर्थः । अतिरिक्तप्रार्थनानीतिशेषः । कदर्नानि
कदर्शनानि द्विरुक्तानि अलमलमितिवन्नैस्पृह्यातिशयद्योतनायेति बोध्यम् । अत्य-
न्तकुत्सित प्रार्थनान्येवेत्यर्थः । अनश्वरभवत्पादसेवनमपहाय नश्वराणामन्येषां केषां
वा प्रार्थना कुत्सिता न भवतीति भावः ॥ अपि चेति ॥ देवाः इन्द्रादयः
के इति प्रश्नः, मन्मातृभगिनीपुत्रा न भवन्तीति भावः । दनुजाः क इति प्रश्नः

मत्सपत्नीमातृपुत्रा न भवन्तीति भावः । इदं जगत् किं अहं शिरसि जगद्धृत्वा न
गच्छामि खल्विति भावः । अन्ततोऽवसाने अहं कः अहं वा कियत्कालं स्थास्यामि,
मम वा किं शाश्वतमिति भावः । इमं मदीयं विमोहमज्ञानं परिहृत्य निवार्य
पालय संरक्षणं कुरु दासोऽस्मि दासोऽस्मि अत्यन्तं भृत्योऽस्मीति तात्पर्यार्थः ।
द्विरुक्ति:तिः भक्तचत्यतिशयद्योतनार्था ॥ इतीति ॥ इतीत्थं कमलाया लक्ष्म्याः

कटाक्षाणां पात:तः प्रसरणं तेन भगवतो नारायणस्य परिग्रहेण केवलं भक्त
इति स्वीकारेण चेत्यर्थः । तत्त्वं वास्तवार्थम् । प्रतिबुध्य ज्ञात्वा पद्मसम्भवे
ब्रह्मणि उदासीने तटस्थे सतीत्यर्थ:थः । प्रपञ्च एव पाञ्चालिका दारुप्रतिमा ।
'पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृताः' इत्यमरः । तस्याः नटनं नर्तनं
तस्मिन् सूत्रधारः सूत्रधारसदृशः । यथा भरताचार्य:यः सूत्रधारः प्रतिमां नर्तयति
तथा वासुदेव:वः सूत्रधारस्थानीयस्सन् जगत्पाञ्चालिकां नर्तयति, सर्वस्यापि तदा-
यत्तत्वादिति भावः । परमपुरुष:षः उत्तमपुरुषो नारायण:णः सर्वपथीनया सर्वमार्ग -
व्यापिन्या महामायया तमाच्छादयन् आवृण्वन् अस्य ब्रह्मणः कर्तव्यं कार्यायां-
मुपविदिदेश उपदेशं कृतवान् । उपदेशप्रकारमाह ॥ भवान् कदर्थनान्येव
N – 23