This page has been fully proofread twice.

'स्वप्नोन्मादावपि हि सृजतो नाथ वस्तूनि मिथ्या
सन्धार्यन्ते ननु च मनुजैरप्यमी वेदवादाः ।
प्रापं श्रेयः किमहमियता प्रापमेवानया तु
स्वामिन् दृष्ट्या तव शिशिरया मङ्गलं मङ्गळानाम् ॥ ४३॥
 
अपि च ।
 
मनोरथानामपि यो मनोरथः सुदुर्लभानामपि यत्सुदुर्लभम् ।
तदेव लब्धं तव [^१]पादपङ्कजं कदर्थनान्येव कदर्थनान्यतः ॥ ४४ ॥
 
[commentary]
 
स्याष्टकर्णत्वमित्याशयः । पिबन् शृण्वन्निति तात्पर्यार्थः, तदात्वं तत्कालः । 'तत्कालस्तु तदात्वं स्यात्' इत्यमरः । 'तत्र भवः' (४.३.१५३) इत्यर्थे कालवाचित्वात् ठञ्प्रत्ययः । एवं तादात्विकः यो हर्षः आनन्दः तेन सम्भ्रमेण आदरेण चावलुप्तं अदृष्टं, अस्फुरितमिति यावत् । वक्तव्यं कथनीयम् यस्य सतथाभूतस्सन् कथञ्चित् कृच्छ्रेणेदं वक्ष्यमाणं आचचक्षे जगाद । उक्तिप्रकारमेवाह ॥ स्वप्नेति ॥ स्वप्नः स्वापावस्था । 'स्यान्निद्रा शयनं स्वापस्स्वप्नस्संवेश इत्यपि' इत्यमरः । उन्मादः उन्मादावस्था । 'उन्मादश्चित्तविभ्रमः’ इत्यमरः । तौ स्वप्नोन्मादावपि कर्तारौ हे नाथ मिथ्या वितथा । 'मृषा मिथ्या च वितथा' इत्यमरः । वस्तूनि पदार्थान्सृजतः निर्माणं कुर्वतः अमी एते वेदवादाः वेदोक्तयः मनुजैरपि सन्धार्यन्ते ननु, एकैकमुखेनापीति भावः । ध्रियन्ते खलु । इयता एतावता इह इदानीं किं श्रेयः प्रापं प्राप्तवानासं, न किमपीत्यर्थः । हे स्वामिन् अनया शिशिरया शीतलया तव दृष्ट्या दर्शनेन, 'दृष्टिर्ज्ञानेऽक्ष्णि दर्शने' इत्यमरः । मङ्ग्यन्ते उपसृप्यन्त इति मङ्गळाः उपसर्पणीया इत्यर्थः । 'मगि सर्पणे' इति धातोः मगेरलच्प्रत्ययः । तेषां मङ्गळं उपसर्पणीयं धामेति शेषः । प्रापं प्राप्तवानासम् । यद्वा, मङ्गळानां मङ्गळं परमं शुभमित्यर्थः । 'कल्याणे मङ्गळे भौमे मङ्गळा श्वेतदूर्विका' इति हेमचन्द्रः । प्रापं पूर्ववत् ॥ अपि चेति ॥ मनोरथानां इच्छानाम् । निर्धारणे षष्ठी। 'इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः' इत्यमरः । यः मनोरथः मुख्यसङ्कल्प इत्यभिप्रायार्थः । सोऽपि फलित इति पदद्वयस्य शेषः । सुदुर्लभानामपि अनुपलभ्यमानवस्तूनामपि यत् सुदुर्लभम् । पूर्ववत्षष्ठी । तत्तथाविधं तव पादसेवनं
 
[^१] 'पादसेवनम्' इति व्याख्यापाठः ।