This page has been fully proofread once and needs a second look.

नीलकण्ठविजयै सव्याख्याने
 
'स्वप्नोन्मादावपि हि सृजतो नाथ वस्तूनि मिथ्या

सन्धार्यन्ते ननु च मनुजैरप्यमी वेदवादाः ।

प्रापं श्रेयः किमहमियता प्रापमेवानया तु
 

स्वामिन् दृष्ट्या तव शिशिरया मङ्गलं मङ्गळानाम् ॥ ४३॥
 

 
अपि च ।
 

 
मनोरथानामपि यो मनोरथः सुदुर्लभानामपि यत्सुदुर्लभम् ।

तदेव लब्धं तव '[^१]पादपङ्कजं कदर्थनान्येव कदर्थनान्यतः ४४

 
[commentary]
 
स्याष्टकर्णत्वमित्याशय:यः । पिचन् शबन् शृण्वन्निति तात्पर्यार्थः, तदात्वं तत्काल: ।
लः । 'तत्कालस्तु तदात्वं स्यात्' इत्यमरः । 'तत्र भवः' [4-3-153](४.३.१५३) इत्यर्थे कालवा-
चित्वात् ठञ्प्रत्ययः । एवं तादात्विकः यो हर्षः आनन्दः तेन सम्भ्रमेण आदरेण
चावलुप्तं अदृष्टं, अस्फुरितमिति यावत् । वक्तव्यं कथनीयम् यस्य सतथाभूतस्सन् कथ-
ञ्चित् कृच्छ्रेणेदं वक्ष्यमाणं चचक्षे जगाद । उक्तिप्रकारमेवाह ॥ स्वप्नेति ॥ स्वप्नः
स्वापावस्था । 'स्यान्निद्रा शयनं स्वापस्स्वप्नस्संवेश इत्यपि ' इत्यमरः । उन्नामादः
उन्मादावस्था । 'उन्मादश्चित्तविभ्रमः इत्यमरः । तौ स्वप्नोन्मादावपि कर्तारौ हे
नाथ मिथ्या वितथा । 'मृषा मिथ्या च वितथा' इत्यमरः । वस्तूनि पदार्थान्
सृजतः निर्माणं कुर्वतः अमी एते वेदवादाः वेदोक्तय:यः मनुजैरपि सन्धार्यन्ते
ननु, एकैकमुखेनापीति भावः । त्ध्रियन्ते खलु । इयता एतावता इह इदानीं किं
श्रेयः प्रापं प्राप्तवानासं, न किमपीत्यर्थः । हे स्वामिन् अनया शिशिरया शीतलया
तव दृष्ट्या दर्शनेन, 'दृष्टिर्ज्ञानेऽक्षिणष्णि दर्शने' इत्यमरः । मङ्ग्यन्ते उपसृप्यन्त
इति मङ्गळाः उपसर्पणीया इत्यर्थः । 'मगि सर्पणे' इति धातोः मगेरलच्प्रत्ययः ।
तेषां मङ्गळं उपसर्पणीयं धामेति शेषः । प्रापं प्राप्तवानासम् । यद्वा, मङ्गळानां मङ्गळं
परमं शुभमित्यर्थः । 'कल्याणे मङ्गळे भौमे मङ्गळा श्वेतदूर्विका' इति हेमचन्द्रः ।
प्रापं पूर्ववत् ॥ अपि चेति ॥ मनोरथानां इच्छानाम् । निर्धारणे षष्ठी।
'इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः' इत्यमरः । यः मनोरथः
मुख्यसङ्कल्प इत्यभिप्रायार्थः । सोऽपि फलित इति पदद्वयस्य शेष:षः । सुदुर्लभाना-
मपि अनुपलभ्यमानवस्तूनामपि यत् सुदुर्लभम् । पूर्ववत्षष्ठी । तत्तथाविधं तव पादसेवनं
 
1. '

 
[^१] '
पादसेवनम्' इति व्याख्यापाठः ।
 
"