2023-09-13 13:26:01 by Bharadwajraki
This page has been fully proofread twice.
'स्रष्टासि तात जगतोऽस्य चराचरस्य
सन्धारयस्यथ मुखैश्चतुरोऽपि वेदान् ।
तेनासि लोकदयितो दयितो ममापि
तद्ब्रूहि कं सफलयामि मनोरथं ते ॥ ४०-४१ ॥
कत्यसृजं विश्वसृजः कति वा स्रक्ष्यामि कति सृजाम्यधुना ।
भवति परभक्तिशालिनि भवतीव न मे क्वचित्करुणा ॥ ४२ ॥’
इति मधुरां गिरमिन्दिरापतेः पिबन्नष्टभिः कर्णैः पितामहस्तादात्विकहर्षसम्भ्रमावलुप्तवक्तव्यः कथञ्चिदिदमाचचक्षे ।
[commentary]
'भावकर्मणोः' (१.३.१३) इत्यात्मनेपदं लोट् ॥ इतीति ॥ कमलासनो ब्रह्मा कमलां
लक्ष्मीं प्रति इतीत्थं यावत्प्रार्थयते प्रार्थनां कुर्यात् । 'यावत्पुरानिपातयोलेट्' (३.३.४) इति लट्प्रत्ययः । तावत् गोविन्दः स्वयमेव इत्थं वक्ष्यमाणप्रकारं अनुजगृहे अनुग्रहं कृतवान् । अनुग्रहप्रकारमेवाह ॥ स्रष्टेति ॥ तातेत्यामन्त्रणं लोकवत्प्रेमातिशयेनेति बोध्यम् । यस्मात्कारणात् चरं चाचरं चानयोस्समाहारः चराचरं तस्य, स्थावरजङ्गमात्मकस्येत्यर्थः । अस्य परदृश्यमानस्य जगतः लोकस्य । 'विष्टपं भुवनं जगत्' इत्यमरः । स्रष्टा निर्मातासि भवसि । अथ चतुरो वेदान् ऋग्यजुस्सामाथर्वणः मुखैः सन्धारयसि वहसि । तेन कारणेन लोकानां जनानां दयितः प्रियः असि । स्वर्गापवर्गसम्पादकशरीरनिर्माणादिति भावः । ममापि दयितः प्रियः असि, मदाज्ञारूपवेदधारणादिति भावः । तत्तस्मात्ते तव कं मनोरथं सङ्कल्पं सफलयामि, अद्यैव सफलं करोमि । 'तत्करोति तदाचष्टे' इति सफलशब्दाद्वर्तमाने लट् । ब्रूहि ॥ कतीति ॥ कति विश्वसृजः विधातॄनहमसृजं निर्मितवानासं कति वा विधीन्, इतः परिमिति शेषः । स्रक्ष्यामि निर्माणं करिष्यामि । अधुना कति ब्रह्मणः सृजामि निर्माणं करोमि । कालस्यानादित्वादनेके ब्रह्माणः पूर्वं बभूवुः ।उत्तरत्रानेके भविष्यन्ति । ब्रह्माण्डानामानन्त्यादधुना अनेके वर्तन्ते, तथापीति भावः । परा उत्कृष्टा या भक्तिः मय्यनुरागः तया शाली शोभमानः तथाभूते भवति त्वयीव मे मम क्वचित् कस्मिन्नपि ब्रह्मणीत्यर्थः । करुणा कृपा न भवति नास्तीत्यर्थः ॥ इतीति । पितामहः ब्रह्मा इति एवंप्रकारं इन्दिरापतेः माधवस्य तां तादृशीं गिरं वाचं अष्टभिरष्टसङ्ख्याकैः कर्णैः श्रोत्रैः । चतुर्मुखत्वात्त-