This page has not been fully proofread.

द्वितीयाश्वासः
 
'स्रष्टासि तात जगतोऽस्य चराचरस्य
 
सन्धारयस्यथ मुखैश्चतुरोऽपि वेदान् ।
तेनासि लोकदयितो दयितो ममापि
 
तद्ब्रूहि कं सफलयामि मनोरथं ते ॥ ४०-४१ ॥
कत्यसृजं विश्वसृजः कति वा स्रक्ष्यामि कति सृजाम्यधुना ।
भवति परभक्तिशालिनि भवतीव न मे क्वचित्करुणा ॥ ४२ ॥
 
१७५
 
इति मधुरां गिरमिन्दिरापतेः पिबन्नष्टभिः कर्णैः पितामहस्ता-
दात्विकहर्षसम्भ्रमावलुप्तवक्तव्यः कथञ्चिदिदमाचचक्षे ।
 

 
'भावकर्मणो:' (1-3-13) इत्यात्मनेपदं लोट् ॥ इतीति ॥ कमलासनो ब्रह्मा कमलां
लक्ष्मीं प्रति इतीत्थं यावत्प्रार्थयते प्रार्थनां कुर्यात् । 'यावत्पुरानिपातयोलेट्' ( 3-3-4)
इति लट्प्रत्ययः । तावत् गोविन्दः स्वयमेव इत्थं वक्ष्यमाणप्रकारं अनुजगृहे अनुग्रहं
कृतवान् । अनुग्रहप्रकारमेवाह ॥ स्रष्टेति ॥ तातेत्यामन्त्रणं लोकवत्प्रेमाति-
शयेनेति बोध्यम् । यस्मात्कारणात् चरं चाचरं चानयोस्समाहार: चराचरं तस्य,
स्थावरजङ्गमात्मकस्येत्यर्थः । अस्य परदृश्यमानस्य जगत: लोकस्य । 'विष्टपं
भुवनं जगत्' इत्यमरः । स्रष्टा निर्मातासि भवसि । अथ चतुरो वेदान्
ऋग्यजुस्सामाथर्वणः मुखैः सन्धारयसि वहसि । तेन कारणेन लोकानां जनानां
दयितः प्रियः असि । स्वर्गापवर्गसम्पादकशरीरनिर्माणादिति भावः । ममापि
दयितः प्रियः असि, मदाज्ञारूप वेदधारणादिति भावः । तत्तस्मात्ते तव कं
मनोरथं सङ्कल्पं सफलयामि, अद्यैव सफलं करोमि । 'तत्करोति तदाचष्टे' इति
सफलशब्दाद्वर्तमाने लट् । हि ॥ कतीति ॥ कति विश्वसृजः विधातृनहमसृजं
निर्मितवानासं कति वा विधीन्, इतः परिमिति शेषः । स्रक्ष्यामि निर्माण
करिष्यामि । अधुना कति ब्रह्मणः सृजामि निर्माण करोमि । कालस्याना दित्वा-
दनेके ब्रह्माण: पूर्व बभूवुः । उत्तरत्रानेके भविष्यन्ति । ब्रह्माण्डानामानन्त्यादधुना
अनेके वर्तन्ते, तथापीति भावः । परा उत्कृष्टा या भक्ति: मय्यनुरागः तया शाली
शोभमानः तथाभूते भवति त्वयीव मे मम क्वचित् कस्मिन्नपि ब्रह्मणीत्यर्थः । करुणा कृपा
न भवति नास्तीत्यर्थः ॥ इतीति । पितामहः ब्रह्मा इति एवंप्रकारं इन्दिरापतेः
माघवस्य तां तादृशीं गिरं वाचं अष्टभिरष्टसङ्ख्याकैः कर्णैः श्रोत्रैः । चतुर्मुखत्वात-