This page has been fully proofread twice.

जय जय करुणाकटाक्षप्रतीक्षत्रिलोकेश्वरे
जय जय जनिमार्गलग्नाणुवर्गापवर्गप्रदे ॥ ३९ ॥
 
वत्सेति प्रवहत्सुधारसपरिष्वक्तं यदामन्त्रितं
दृष्टं यच्च दयातरङ्गशिशिरोत्सङ्गैरपाङ्गैस्त्वया ।
तस्मादस्म्यधुना विशिष्य कुशली धन्याश्च देवा इमे
विज्ञाप्यं तु कथं हरौ किमथवा तस्यादिरादिश्यताम् ॥'
 
इति यावत्प्रार्थयते कमलां कमलासनस्तावद्गोविन्द एव स्वयमित्थमनुजगृहे ।
 
[commentary]
 
श्राश्च ते कटाक्षाश्चेति शाकपार्थिवादित्वात्समासः । तथाविधकटाक्षान् प्रतीक्षमाणाः प्रतिपालयन्तः त्रिलोकेश्वराः यस्यास्सा तस्यास्सम्बुद्धिः । जय जयेति सम्बन्धः । जनिरुत्पत्तिः तस्या मार्गः संसारमार्ग इति तात्पर्यार्थः । तस्मिन् लग्नास्सम्बद्धा ये अणवः परिमाणविशेषविशिष्टा जीवा इत्यर्थः । तेषां यो वर्गसङ्घातरूपः मूर्तिभूत इति यावत् । तस्यापवर्गप्रदा मोक्षप्रदा तस्याः सम्बुद्धिः । जय जय सर्वोत्कर्षेण वर्तस्व । भगवत्यास्सर्वोत्कर्षे प्रतिपादिते सति, सर्वान्तःपातित्वात् स्वस्यापि स्वापेक्षयापि भगवत्यामुत्कर्षोऽभिहितप्राय एवेतीयमुक्तिस्स्वावधिकतदुत्कृष्टत्वानुसन्धानरूपनमस्कार एव पर्यवस्यतीति वेदितव्यम् । मातृवचनप्रशंसापूर्वकं स्वक्षेममभिधाय भगवन्निकटे वक्तव्यक्रमं पृच्छतीत्याह ॥ वत्सेति ॥ त्वया प्रवहन् प्रसरन्सुधारसो अमृतद्रवः तेन परिष्वक्तं परिप्लुतं वत्सेति यदामन्त्रितम् । नपुंसके भावे क्तः । यदाह्वानमित्यर्थः । दया कृपा तस्यास्तरङ्गः परम्परा इति तात्पर्यार्थः । तैश्शिशिरः शीतलः उत्सङ्गः समीपदेशः येषां ते तथाभूतैः 'अङ्कस्समीप उत्सङ्गः' इति विश्वः । अपाङ्गैः नेत्रान्तैः यद्दृष्टम् । अत्रापि पूर्ववत् क्तः । यदवलोकनमित्यर्थः । तस्मादाभाषणावलोकनलक्षणादुभयस्मात् अहं विशिष्य विशेषतः अधुना कुशली पुण्यवानस्मि भवामि । 'पर्याप्तिक्षेमपुण्येषु कुशलम्' इत्यमरः । इमे देवाश्च धन्याः हरौ भगवद्विषये तु कथं विज्ञाप्यं विज्ञापना कथं कर्तव्येत्यर्थः । अथ कार्त्स्न्येन । 'मङ्गळानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ' इत्यमरः । तस्य विज्ञाप्यस्य आदिः प्रकारः । 'आदिः प्रकारे प्रथमे निदाने परपूरुषे' इति भास्करः । आदिश्यतामुच्यताम् । आङ्पूर्वाद् दिशतेरुच्चारणार्थात्