This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
जय जय
 
करुणाकटाक्षप्रतीक्षत्रिलोकेश्वरे
 
जय जय जनिमार्गलग्नाणुवर्गापवर्गप्रदे ॥ ३९ ॥
वत्सेति प्रवहत्सुधारसपरिष्वक्तं यदामन्त्रितं
दृष्टं यच्च दयातरङ्गशिशिरोत्सङ्गैरपाङ्गैस्त्वया ।
तस्मादरम्यधुना विशिष्य कुशली धन्याश्च देवा इमे
विज्ञाप्यं तु कथं हरौ किमथवा तस्यादिरादिश्यताम् ॥'
इति यावत्प्रार्थयते कमलां कमलासनस्तावद्गोविन्द एव स्वयमित्थ-
मनुजगृहे ।
 
श्राश्च ते कटाक्षाश्चेति शाकपार्थिवादित्वात्समासः । तथाविधकटाक्षान् प्रतीक्षमाणाः
प्रतिपालयन्तः त्रिलोकेश्वराः यस्यास्सा तस्यास्सम्बुद्धिः । जय जयेति सम्बन्धः ।
जनिरुत्पत्तिः तस्या मार्ग: संसारमार्ग इति तात्पर्यार्थः । तस्मिन् लग्नास्सम्बद्धा
ये अणवः परिमाणविशेषविशिष्टा जीवा इत्यर्थः । तेषां यो वर्गसङ्घातरूपः
मूर्तिभूत इति यावत् । तस्यापवर्गप्रदा मोक्षप्रदा तस्याः सम्बुद्धिः । जय जय सर्वो-
त्कर्षेण वर्तस्व। भगवत्यास्सर्वोत्कर्षे प्रतिपादिते सति, सर्वान्तः पातित्वात् स्वस्यापि
स्वापेक्षयापि भगवत्यामुत्कर्षोऽभिहितप्राय एवेतीयमुक्तिस्वावधिकतदुत्कृष्टत्वानुस-
न्धानरूपनमस्कार एव पर्यवस्यतीति वेदितव्यम् । मातृवचनप्रशंसापूर्वकं स्वक्षेममभि-
घाय भगवन्निकटे वक्तव्यक्रमं पृच्छतीत्याह ॥ वत्सेति ॥ त्वया प्रवहन् प्रसरन्
सुधारसो अमृतद्रवः तेन परिष्वक्तं परिप्लुतं वत्सेति यदामन्त्रितम् । नपुंसके
भावे क्तः । यदाह्वानमित्यर्थ: । दया कृपा तस्यास्तरङ्गः परम्परा इति तात्प
र्यार्थः । तैश्शिशिरः शीतलः उत्सङ्गः समीपदेशः येषां ते तथाभूतैः 'अङ्कस्समीप
उत्सङ्गः' इति विश्वः । अपाङ्गैः नेत्रान्तैः यद्दृष्टम् । अत्रापि पूर्ववत् क्तः ।
यदवलोकनमित्यर्थः । तस्मादाभाषणावलोकनलक्षणादुभयस्मात् अहं विशिष्य
विशेषतः अधुना कुशली पुण्यवानस्मि भवामि । 'पर्याप्तिक्षेमपुण्येषु कुशलम्'
इत्यमरः । इमे देवाश्च धन्याः हरौ भगवद्विषये तु कथं विज्ञाप्यं विज्ञापना
कथं कर्तव्येत्यर्थः । अथ कार्येन । 'मङ्गळानन्तरारम्भप्रश्नकार्येष्वथो अथ'
इत्यमरः । तस्य विज्ञाप्यस्य आदिः प्रकार: । 'आदि: प्रकारे प्रथमे निदाने
परपूरुषे' इति भास्करः । आदिश्यतामुच्यताम् । आङ्पूर्वाद् दिशतेरुच्चारणार्थात्