This page has been fully proofread twice.

ततः प्रसादविमलपद्मनाभकटाक्षपरिक्षेपविदितेङ्गितया पादमूलनिविष्टया तस्य भगवत्या पद्महस्तया निसर्गमधुरैरपि निर्भरवात्सल्यसुधासारमधुरैरक्षरैः 'वत्स चिरादागतोऽसि, वर्तसे कुशलेन, का इमाः
प्रजाः कान्दिशीका इव लक्ष्यन्ते' इत्यनुयुज्यमानो विधिरन्तरानन्दतुन्दिलः प्रणम्य शतशः परां देवतामिदमाबभाषे ।
 
'जय जय जगदम्ब जाम्बूनदाम्भोजकोशप्रभे
जय जय कमलाक्षवक्षःस्थलीहर्म्यनर्मप्रिये ।
 
[commentary]
 
इति ॥ ततो देवप्रणामानन्तरं प्रसादः प्रसन्नता, आभिमुख्यमिति यावत् । तेन, विमलाः मनोहराः ये पद्मनाभस्य नारायणस्य कटाक्षाः । 'कटाक्षोऽपाङ्गदर्शने' इत्यमरः । तेषां परिक्षेपः परिपातः तेन विदितं श्रुतं इङ्गितम् । 'निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम्’ इत्यमरः । भावो यया सा । तथाभूतया । तस्य नारायणस्य पादयोर्मूले निविष्टया उपविष्टया भगवत्या महिमशालिन्या
पद्महस्तया रमादेव्या निसर्गः स्वभावः तस्मान्मधुरा रमणीयाः तथाभूतैरपि निर्भरम् अतिमात्रमित्यर्थः । 'अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्' इत्यमरः । वात्सल्यं प्रेम तदेव सुधा पीयूषं तस्याः आसारः धारासम्पातः तेन मधुरैः स्पृहणीयैः । हे वत्स ! चिरात् चिरकालेनेत्यर्थः । आगतोऽसि कुशलेन क्षेमेण वर्तसे किमिति काकुः । इमाः परिदृश्यमानाः प्रजाः जनाः । 'प्रजा स्यात्सन्ततौ जने' इत्यमरः । कान्दिशीकाः भयद्रुता इव । 'कान्दिशीको भयद्रुतः' इत्यमरः । लक्ष्यन्ते दृश्यन्ते इति इत्थंविधैरक्षरैः वर्णैर्वचोभिरिति फलितार्थः । अनुयुज्यमानः आपृष्टः अत एवानन्देन सुखेन तुन्दिलः मांसलः । 'तुन्दिलस्तुन्दिमस्तुन्दी' इत्यमरः । विधिः ब्रह्मा शतशः अनेकधा । 'बह्वल्पार्थाच्छस् -- ’ (५.४.४२) इति शस्प्रत्ययः । परां देवतां मङ्गळदेवतां प्रति प्रणम्य नमस्कृत्य इदं वक्ष्यमाणं वच आबभाषे जगाद । अथ कथनप्रकारमाह ॥ जयेति ॥ जगतां लोकानां अम्बा जगदम्बा, तस्यास्सम्बुद्धिः हे जगदम्ब । 'अम्बार्थनद्योर्ह्रस्वः’ (७.३.१०७) इति सम्बुद्धिनिमित्तकह्रस्वः । जाम्बूनदं सुवर्णं तन्मयो यः अम्भोजस्य कोशः कुड्मलं तस्य प्रभेव प्रभा यस्याः तस्यास्सम्बुद्धिः । जय जय सर्वोत्कर्षेण वर्तस्व ।
भक्तिवशाद्धातोर्द्विरुक्तिः । कमलाक्षस्य या वक्षःस्थली सैव हर्म्यं सौधः तस्मिन्नर्म केळिः तत्प्रियं यस्यास्सा तस्यास्सम्बुद्धिः । जय जय । करुणा कारुण्यं तन्मि-