2023-06-05 16:40:10 by ambuda-bot
This page has not been fully proofread.
द्वितीयाभ्वासः
१७३
ततः प्रसादविमलपद्मनाभकटाक्षपरिक्षेपविदितेङ्गितया पादमूल-
निविष्टया तस्य भगवत्या पद्महस्तया निसर्गमधुरैरपि निर्भरवात्सल्य-
सुधासारमधुरैरक्षरैः 'वत्स चिरादागतोऽसि, वर्तसे कुशलेन, का इमाः
प्रजाः कान्दिशीका इव लक्ष्यन्ते' इत्यनुयुज्यमानो विधिरन्तरानन्दतु-
न्दिलः प्रणम्य शतशः परां देवतामिदमावभाषे ।
'जय जय जगदम्ब जाम्बूनदाम्भोजकोशप्रभे
जय जय कमलाक्षवक्षःस्थलीहर्म्यनर्मप्रिये ।
इति ॥ ततो देवप्रणामानन्तरं प्रसादः प्रसन्नता, आभिमुख्यमिति यावत् । तेन,
बिमलाः मनोहराः ये पद्यनाभस्य नारायणस्य कटाक्षाः । 'कटाक्षोऽपाङ्गदर्शने'
इत्यमरः । तेषां परिक्षेपः परिपातः तेन विदितं श्रुतं इङ्गितम् । 'निकारो
विप्रकार: स्यादाकारस्त्विङ्ग इङ्गितम् इत्यमरः । भावो यया सा । तथाभूतया ।
तस्य नारायणस्य पादयोर्मूले निविष्टया उपविष्टया भगवत्या महिमशालिन्या
पद्महस्तया रमादेव्या निसर्गः स्वभावः तस्मान्मधुरा रमणीयाः तथाभूतैरपि
निर्भरम् अतिमात्रमित्यर्थः। 'अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्' इत्यमरः । वा-
त्सल्यं प्रेम तदेव सुधा पीयूष तस्याः आसारः धारासम्पातः तेन मधुरैः स्पृहणी-
यैः । हे वत्स ! चिरात् चिरकालेनेत्यर्थः । आगतोऽसि कुशलेन क्षेमेण वर्तसे
किमिति काकुः । इमाः परिदृश्यमानाः प्रजाः जनाः । 'प्रजा स्यात्सन्ततौ जने '
इत्यमरः । कान्दिशीकाः भयद्रुता इव । 'कान्दिशीको भयद्रुतः' इत्यमरः ।
लक्ष्यन्ते दृश्यन्ते इति इत्थंविधैरक्षरैः वर्णैवचोभिरिति फलितार्थः । अनुयुज्यमानः
आपृष्ट: अत एवानन्देन सुखेन तुन्दिल: मांसल: । 'तुन्दिलस्तुन्दिमस्तुन्दी'
इत्यमरः । विधिः ब्रह्मा शतशः अनेकधा । 'बह्वल्पार्थाच्छस–१ (5-4-42) इति
-
शस॒प्रत्ययः । परां देवतां मङ्गळदेवतां प्रति प्रणम्य नमस्कृत्य इदं वक्ष्यमाणं वच
आबभाषे जगाद । अथ कथनप्रकारमाह ॥ जयेति ॥ जगतां लोकानां अम्बा
जगदम्बा, तस्यारसम्बुद्धिः हे जगदम्ब । 'अम्बार्थनथोर्हस्व:) (7-3-107) इति
सम्बुद्धिनिमित्तकद्धस्व: । जाम्बूनदं सुवर्णं तन्मयो यः अम्भोजस्य कोश: कुड्मलं
तस्य प्रभेव प्रभा यस्याः तस्यास्सम्बुद्धिः । जय जय सर्वोत्कर्षेण वर्तस्व ।
भक्तिवशाद्धातोर्द्विरुक्तिः । कमलाक्षस्य या वक्षःस्थली सैव हर्म्यं सौधः तस्मिन्नर्म
केळि: तत्प्रियं यस्यास्सा तस्यास्सम्बुद्धिः । जय जय । करुणा कारुण्यं तन्मि-
।