This page has been fully proofread twice.

अत्रान्तरे वाचस्पतिं पुरस्कृत्य वासवमुखा बर्हिर्मुखाः प्रविकीर्य पुष्पाञ्जलीन्, प्रणिपत्य दूरतरशतकृत्वः, समुत्थाय शिरसि सङ्घटिताञ्जलयो विस्मयस्तिमितास्स्तम्भवदासाञ्चक्रिरे ।
 
तुष्टूषतोऽस्य बहुधा सुरदेशिकस्य
दिव्याद्भुतानि चरितानि परस्य धाम्नः ।
स्तब्धा सती श्वशुरदर्शनसाध्वसेन
वाणी न वक्त्रकुहराद्बहिराविरासीत् ॥ ३८ ॥
 
[commentary]
 
एकं अद्वितीयं तत्परं ब्रह्म कर्म अशरणः रक्षकान्तररहितः अहं शरणं संरक्षकं प्रपद्ये प्राप्तोऽस्मि । विधिवृत्तान्तमुपवर्ण्य संप्रति देवानां वृत्तान्तमाह ॥ अत्रेति ॥ अत्रान्तरे अस्मिन्नवसरे वाक्पतिं पुरस्कृत्य पुरतः कृत्वा वासवमुखा इन्द्रादयः बर्हिः अग्निः मुखं येषां ते बर्हिर्मुखा देवाः पुष्पभरिताश्च तेऽञ्जलयश्चेति कर्मधारयः । शाकपार्थिवादित्वात् उत्तरपदलोपः । तान् प्रकीर्य विकीर्येत्यर्थः । यद्यप्यञ्जलिसंप्रकिरणं न सम्भवति, किन्तु पुष्पाणामेव, तथापि सर्वे देवाः सम्भूय युगपदेवाञ्जलिभिः पुष्पाणां प्रकिरणं कृतवन्तः, तदाञ्जलय एव प्रकीर्णा इव स्थिता इति भावः । दूरतः दूरे । 'इतराभ्योऽपि दृश्यन्ते' (५.३.१४) इति सप्तम्यास्तसिः । शतकृत्वः शतवारम् । 'सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' (५.४.१७) इति कृत्वसुच्प्रत्ययः । प्रणिपत्य नमस्कृत्य सङ्घटितास्संयोजिता अञ्जलयो यैस्ते तथाभूतास्सन्तः । विस्मयः अद्भुतं तेन स्तिमिता निश्चलास्सन्तः,
आर्द्रा इति वाऽर्थः । 'आर्द्रं सार्द्रं क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च' इत्यमरः । सात्त्विकभावोदयादिति भावः । स्तम्भेन स्थूणया तुल्यं स्तम्भवत् । 'तेन तुल्यम् --' (५.१.११५) इति वतिप्रत्ययः । आसाञ्चक्रिरे तस्थुः ॥ तुष्टूषत इति ॥ धाम्नस्सर्वाधारस्य परस्य परमात्मनः । 'परोऽरिपरमात्मनोः' इति विश्वः । दिव्यानि श्रवणरमणीयानि च तानि अद्भुतानि आश्चर्यकराणि चेति
कर्मधारयः । चरितानि कर्माणि बहुप्रकारैः तुष्टूषतः स्तोतुमिच्छतः । 'ष्टुञ्' धातोस्सनि 'अज्झनगमां सनि' (६.४.१६) इति दीर्घः । सुरदेशिकस्य सुरगुरोः क्त्रकुहरात् मुखबिलात् वाणी सरस्वती श्वशुरः पत्युः पिता । 'पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः' इत्यमरः । तस्य दर्शनं साक्षात्कारः, तस्मात्
साध्वसं भयं, तेन स्तब्धा निश्चला सती बहिर्नाविरासीत् न प्रादुर्बभूव ॥ तत