This page has not been fully proofread.

१७२
 
नीलकण्ठविजये सव्याख्याने
 
अत्रान्तरे वाचस्पतिं पुरस्कृत्य वासवमुखा बहिर्मुखाः प्रविकीर्य
पुष्पाञ्जलीन्, प्रणिपत्य दूरतरशतकृत्वः समुत्थाय शिरसि सङ्घटि-
ताञ्जलयो विस्मयस्तिमितास्स्तम्भवदासाञ्चक्रिरे ।
तुष्टुषतोऽस्य बहुधा सुरदेशिक
दिव्याद्भुतानि चरितानि परस्य धाम्नः ।
स्तब्धा सती श्वशुरदर्शनसाध्वसेन
 
वाणी न वक्त कुहरा हिरा विरासीत् ॥ ३८ ॥
 
एकं अद्वितीय तत्परं ब्रह्म कर्म अशरण: रक्षकान्तररहितः अहं शरणं संरक्षकं
प्रपद्ये प्राप्तोऽस्मि । विधिवृत्तान्तमुपवर्ण्य संप्रति देवानां वृत्तान्तमाह ॥ अत्रेति ॥
अत्रान्तरे अस्मिन्नवसरे वाक्पतिं पुरस्कृत्य पुरतः कृत्वा वासवमुखा इन्द्रादयः बर्हिः
अग्नि: मुखं येषां ते बर्हिर्मुखा देवाः पुष्पभरिताश्च तेऽञ्जलयश्चेति कर्मधारयः ।
शाकपार्थिवादित्वात् उत्तरपदलोप: । तान् प्रकीर्य विकीर्येत्यर्थः । यद्यप्यञ्जलिसंप्र-
किरणं न सम्भवति, किन्तु पुष्पाणामेव, तथापि सर्वे देवाः सम्भूय युगपदेवा-
अलिभि: पुष्पाणां प्रकिरणं कृतवन्तः, तदाञ्जलय एव प्रकीर्णा इव स्थिता इति
भाव: । दूरत दूरे । 'इतराभ्योऽपि दृश्यन्ते' ( 5-3-14) इति सप्तम्या-
स्तसिः । शतक्रुच: शतवारम् । 'सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच'
(5-4-17) इति कृत्वसुचप्रत्ययः । प्रणिपत्य नमस्कृत्य सङ्घटितास्संयोजिता
अञ्जलयो यैस्ते तथाभूतास्सन्तः । विस्मय: अद्भुतं तेन स्तिमिता निश्चलास्सन्तः,
आर्द्रा इति वाऽर्थः । 'आर्द्र सार्द्र क्लिनं तिमितं स्तिमित समुन्नमुतं च '
इत्यमरः । सात्त्विकभावोदयादिति भावः । स्तम्भेन स्थूणया तुल्यं स्तम्भवत् ।
'तेन तुझ्यम् –' (5-1-115) इति बतिप्रत्ययः । आसाञ्चकिरे तस्थुः ॥ तुष्टुपत
इति ॥ धान्नस्सर्वाधारस्य परस्य परमात्मनः । 'परोऽरिपरमात्मनोः' इति
विश्वः । दिव्यानि श्रवणरमणीयानि च तानि अद्भुतानि आश्चर्यकराणि चेति
कर्मधारयः । चरितानि कर्माणि बहुप्रकारैः तुष्टषतः स्तोतुमिच्छतः । 'टुञ्' घा-
तोस्सनि 'अज्झनगमां सनि' ( 6-4-16) इति दीर्घः । सुरदेशिकस्य सुरगुरोः
बक्त्रकुहरात् मुखबिलात् वाणी सरस्वती श्वशुरः पत्युः पिता । 'पतिपत्न्योः
प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः' इत्यमरः । तस्य दर्शनं साक्षात्कारः, तस्मात्
साध्वसं भयं, तेन स्तब्धा निश्चला सती बहिर्नाविरासीत् न प्रादुर्बभूव ॥ तत