This page has been fully proofread twice.

अहो धन्योऽस्मि धन्योऽस्मि ।
 
एकं तद् द्विविभूति त्रिधामनिहितं चतुर्व्यूहम् ।
पञ्चायुधं प्रपद्ये षड्गुणसम्पन्नमशरणश्शरणम् ॥ ३७॥ इति ।
 
[commentary]
 
वक्रत्वमिति भावः । 'तर्को वितर्के काङ्क्षायामूहवर्मविशेषयोः' इति हैमः । किं न किमपि, सम्पाद्याभावादिति भावः । विविधैः अनेकप्रकारैः उपबृंहणैरभिवृद्धिभिः । 'बृहि वृद्धौ' इति धातोः ल्युट्प्रत्ययः । तस्य 'युवोरनाकौ' (७.१.१) इत्यनादेशः । किं फलं, न किमपीत्यर्थः । भङ्गुरत्वात् वृद्धीनामिति भावः । अत्र केचित् तर्कैः युक्तिभिः उपबृंहणैरितिहासादिभिः, इतरत्समानमिति व्याजह्रुः । तच्चिन्त्यम् । अत्र अस्मिन् काले देशे वेत्यर्थः । श्रुतीनां वेदानां आशयं तात्पर्यविषयीभूतम्, अहीनां सर्पाणां राजा अहिराजः, तस्य भोगः कायः, तस्मिन् शयं निद्राणं, परब्रह्मेत्यस्यानुषङ्गः । ऐक्षिषि अपश्यम् । 'ईक्ष दर्शने' इति धातोर्लुङि रूपम् । अत्रोपमेयत्वेन सम्भावितस्यात्युपमस्य भगवद्दर्शनस्य लाभेन पुरुषार्थतया तदुपमानत्वेन सम्भावितस्योपबृंहणस्य निराकरणाद्विच्छित्तिविशेषशाली प्रतीपालङ्कारः । तथोक्तं काव्यादर्शे -- 'प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते । अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत् ॥ अन्योपमेयलाभेन तथान्यस्याप्यनादरः ॥‘ इति । अत इत्यस्याध्याहारः । भगवद्दर्शनात् धन्योऽस्मि अहो इत्याश्चर्यार्थकः ॥ एकमिति ॥ द्वे विभूती जीवेशलक्षणे यस्य तद् द्विविभूति अथवा, द्वे विभूती चराचरलक्षणे, ज्ञानैश्वर्यलक्षणे वा यस्य तद् द्विविभूति । त्रीणि यानि धामानि जाग्रत्स्वप्नसुषुप्त्यवस्थालक्षणानि स्थानानि । 'धाम जन्मप्रभास्थानप्रभावसुखसद्मसु’ इति नानार्थरत्नमाला । तेषु निहितं साक्षित्वेन स्थितम् । अथवा, भूतभविष्यद्वर्तमानलक्षणरूपाणि त्रीणि धामानि, तेषु स्थितम् । अथवा, सूर्यचन्द्राग्निषु निहितम् । 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । 'यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥' इति [^१]स्मृतेः । यद्वा द्वे विभूती लीलाविभूतिनित्यविभूत्यात्मिके यस्य तत्तथा ।
त्रीणि धामानि सूर्यमण्डलक्षीराब्धिपरमपदनामानि तेषु निहितं सन्निहितम् । चत्वारः व्यूहाः वासुदेवसङ्कर्षणप्रद्युम्नानिरूद्धनामानो यस्य तच्चतुर्व्यूहम् । पञ्च पञ्चसङ्ख्याकानि आयुधानि प्रहरणानि शङ्खचक्रगदाशार्ङ्गनन्दकरूपाणि यस्य तत्तथाभूतम् । षट्सङ्ख्याकाः ये गुणाः ज्ञानशक्तिबलैश्वर्यवीर्यतेजोरूपाः तैस्सम्पन्नं सहितम् ।
 
[^१] भगवद्गीता (१५-१२) ।