This page has been fully proofread once and needs a second look.

द्वितीयाभ्यासः
 
अहो धन्योऽस्मि धन्योऽस्मि ।
 
१७१
 

 
एकं तद् द्विविभूति त्रिधामनिहितं चतुर्व्यूहम् ।
 

पञ्चायुधं प्रपद्ये षड्गुणसम्पन्नमशरणश्शरणम् ॥ ३७॥ इति ।

 
[commentary]
 
वक्रत्वमिति भावः । 'तर्को वितर्फेके काङ्क्षायामूहवर्मविशेषयोः' इति हैमः । किं
न किमपि, सम्पाद्याभावादिति भावः । विविधैः अनेकप्रकारैः उपबृंहणैरभिवृ-
द्धिभिः । 'बृहि वृद्धौ' इति धातो:तोः ल्युट्प्रत्ययः । तस्य 'युवोरनाकौ' ( 7-1-1 ७.१.१)
इत्यनादेशः । किं फलं, न किमपीत्यर्थः । भङ्गुरत्वात् वृद्धीना मिति भावः ।
अत्र केचित् तर्कैः युक्तिभिः उपबृंहणैरितिहासादिभिः, इतरत्समानमिति व्याजह्रुः ।
तच्चिन्त्यम् । अत्र अस्मिन् काले देशे वेत्यर्थः । श्रुतीनां वेदानां आशयं तात्पर्यवि-
षयीभूतम्, अहीनां सर्पाणां राजा अहिराजः, तस्य भोग:गः काय:यः, तस्मिन् शयं
निद्राणं, परब्रह्मेत्यस्यानुषङ्गः । ऐक्षिषि अपश्यम् । 'ईक्ष दर्शने' इति धातोर्लुङि
रूपम् । अत्रोपमेयत्वेन सम्भावितस्यात्युपमस्य भगवद्दर्शनस्य लाभेन पुरुषार्थतया
तदुपमानत्वेन सम्भावितस्योपबृंहणस्य निराकरणाद्विच्छित्तिविशेषशाली प्रतीपा-
लङ्कारः । तथोक्तं काव्यादर्शे -- 'प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते । अन्योपमेयला-
भेन वर्ण्यस्यानादरश्च तत् ॥ अन्योपमेयलाभेन तथान्यस्याप्यनादरः ॥ इति । अत
इत्यस्याध्याहारः । भगवद्दर्शनात् धन्योऽस्मि अहो इत्याश्चर्यार्थकः ॥ एकमिति ॥
द्वे विभूती जीवेशलक्षणे यस्य तद् द्विविभूति अथवा, द्वे विभूती चराचरलक्षणे,
ज्ञानैश्वर्यलक्षणे वा यस्य तद् द्विविभूति । त्रीणि यानि धामानि जाग्रत्स्वप्नसुषुप्तचव-
त्यवस्थालक्षणानि स्थानानि । 'घाधाम जन्मप्रभास्थानप्रभावसुखसद्मसु इति नानार्थरत्न -
माला । तेषु निहितं साक्षित्वेन स्थितम् । अथवा, भूतभविष्यद्वर्तमानलक्षणरूपाणि
त्रीणि धामानि, तेषु स्थितम् । अथवा, सूर्यचन्द्रामिग्निषु निहितम् । 'यदादित्यगतं
तेजो जगद्भासयतेऽखिलम् । 'यच्चन्द्रमसि यच्चामौग्नौ तत्तेजो विद्धि मामकम् ॥
' इति [^१]स्मृतेः । यद्वा द्वे विभूती लीलाविभूतिनित्यविभूत्यात्मिके यस्य तत्तथा ।
श्

त्
रीणि धामानि सूर्यमण्डलक्षीराब्धिपरमपदनामानि तेषु निहितं सन्निहितम्। चत्वारः
व्यूहाः वासुदेवसङ्कर्षणप्रद्युम्नानिरूद्धनामानो यस्य तच्चतुर्व्यूहम् । पञ्च पञ्चसङ्ख्या -
कानि आयुधानि प्रहरणानि शङ्खचक्रगदाशार्ङ्गनन्दकरूपाणि यस्य तत्तथाभूतम् ।
षट्सङ्ख्याकाः ये गुणाः ज्ञानशक्तिबलैश्वर्यवीर्यतेजोरूपाः तैस्सम्पन्नं सहितम् ।
1.

 
[^१]
भगवद्गीता ( 15.12१५-१२)