2023-09-13 09:43:09 by Bharadwajraki
This page has been fully proofread twice.
उद्यत्कौस्तुभशोभमुत्पलवनीसच्छायमच्छायत-
स्निग्धापाङ्गतरङ्गमैक्षिषि परं ब्रह्माच्युतं शाश्वतम् ॥ ३५ ॥
किं तर्कैरतिवक्रैः किं फलमुपबृंहणैर्विविधैः ।
अत्रैक्षिषि श्रुतीनामाशयमहिराजभोगशयम् ॥ ३६ ॥
[commentary]
(२.३.६५) इति कर्मणि षष्ठी । क्षन्तारं तितिक्षुमित्यर्थः । जडा मलिना धियो येषां ते जडधियः तेषां रावणादीनामिति भावः । षष्ठी पूर्ववत् । यन्तारं निगृह्णन्तं जगतां लोकानां अन्तस्तमः अज्ञानं तस्य हन्तारं विनाशकम् । 'तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता' इति [^१]शास्त्रादिति भावः । अविद्यमानमुत्तरं यस्मात्तदनुत्तरं पराहन्तया परलक्ष्म्या अङ्कितमुरस्स्थलं यस्येति नीलोज्ज्वलवपुरितिवत् बहुपदबहुव्रीहिर्बोध्यः । अहन्ताशब्दो लक्ष्मीं कथमभिधत्त इति चेदत्र केचित् । श्रीमदाचार्येस्सौन्दर्यलहर्यां '.....पुरमथितुराहोपुरुषिका' इति श्लोके (७) आहोपुरुषिकात्वेन पार्वत्या वर्णनं कृतम् । तथा 'अहं तामालम्बे दृढतरमहन्तां पशुपतेः' इति मूकपञ्चशती श्लोके पशुपत्यहन्तात्वेन शिवाया एव वर्णनं कृतं वर्तत इत्येतदनुसारेण नारायणाहन्तात्वेन श्रियो वर्णनं कृतवान् कविरिति समाधानमाहुः । उद्यन्ती कौस्तुभस्य शोभा कान्तिर्यस्मिन्तथाभूतम् । 'स्त्रियाः पुंवत् --' (६.३.३४) इत्यादिना उद्यन्तीशब्दस्य पुंवद्भावः । समाना छाया कान्तिर्यस्य स सच्छायः । उत्पलवन्या उत्पलवनेन सच्छायः तत्समानमिति यावत् । अच्छा निर्मला आयता दीर्घास्स्निग्धा अपाङ्गा एव तेषां वा तरङ्गा यस्य तं तथाभूतम् । शाश्वतं शश्वत् । सर्वेषु कालेषु भवतीति शाश्वतम् । सार्वत्रिकमित्यर्थः । 'शाश्वतस्तु ध्रुवो नित्यसदातनसनातनः' इत्यमरः । अविद्यमानं च्युतं स्खलनं यस्य सोऽच्युतः तं नित्यमित्यर्थः । 'शाश्वतँ, शिवमच्युतम्' इति श्रुतेः । परं निरतिशयं ब्रह्म ऐक्षिषि अपश्यम् । 'ईक्ष दर्शनाङ्कनयोः' इत्यस्माल्लुङि रूपम् । अत्राहन्ताशब्देन लक्ष्म्या निगरणपूर्वकाहन्तारूपताध्यवसानाद्रूपकातिशयोक्त्यलङ्कारः । तल्लक्षणं तु 'रूपकातिशयोक्तिस्स्यान्निगीर्याध्यवसानतः' इति । ॥ किमिति ॥ अतिवक्रैः अतिकुटिलैः तर्केःकैः कामैः । बहुधा प्रसरणात्तेषां
[^१] भगवद्गीता (१०-११) ।
स्निग्धापाङ्गतरङ्गमैक्षिषि परं ब्रह्माच्युतं शाश्वतम् ॥ ३५ ॥
किं तर्कैरतिवक्रैः किं फलमुपबृंहणैर्विविधैः ।
अत्रैक्षिषि श्रुतीनामाशयमहिराजभोगशयम् ॥ ३६ ॥
[commentary]
(२.३.६५) इति कर्मणि षष्ठी । क्षन्तारं तितिक्षुमित्यर्थः । जडा मलिना धियो येषां ते जडधियः तेषां रावणादीनामिति भावः । षष्ठी पूर्ववत् । यन्तारं निगृह्णन्तं जगतां लोकानां अन्तस्तमः अज्ञानं तस्य हन्तारं विनाशकम् । 'तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता' इति [^१]शास्त्रादिति भावः । अविद्यमानमुत्तरं यस्मात्तदनुत्तरं पराहन्तया परलक्ष्म्या अङ्कितमुरस्स्थलं यस्येति नीलोज्ज्वलवपुरितिवत् बहुपदबहुव्रीहिर्बोध्यः । अहन्ताशब्दो लक्ष्मीं कथमभिधत्त इति चेदत्र केचित् । श्रीमदाचार्येस्सौन्दर्यलहर्यां '.....पुरमथितुराहोपुरुषिका' इति श्लोके (७) आहोपुरुषिकात्वेन पार्वत्या वर्णनं कृतम् । तथा 'अहं तामालम्बे दृढतरमहन्तां पशुपतेः' इति मूकपञ्चशती श्लोके पशुपत्यहन्तात्वेन शिवाया एव वर्णनं कृतं वर्तत इत्येतदनुसारेण नारायणाहन्तात्वेन श्रियो वर्णनं कृतवान् कविरिति समाधानमाहुः । उद्यन्ती कौस्तुभस्य शोभा कान्तिर्यस्मिन्तथाभूतम् । 'स्त्रियाः पुंवत् --' (६.३.३४) इत्यादिना उद्यन्तीशब्दस्य पुंवद्भावः । समाना छाया कान्तिर्यस्य स सच्छायः । उत्पलवन्या उत्पलवनेन सच्छायः तत्समानमिति यावत् । अच्छा निर्मला आयता दीर्घास्स्निग्धा अपाङ्गा एव तेषां वा तरङ्गा यस्य तं तथाभूतम् । शाश्वतं शश्वत् । सर्वेषु कालेषु भवतीति शाश्वतम् । सार्वत्रिकमित्यर्थः । 'शाश्वतस्तु ध्रुवो नित्यसदातनसनातनः' इत्यमरः । अविद्यमानं च्युतं स्खलनं यस्य सोऽच्युतः तं नित्यमित्यर्थः । 'शाश्वतँ, शिवमच्युतम्' इति श्रुतेः । परं निरतिशयं ब्रह्म ऐक्षिषि अपश्यम् । 'ईक्ष दर्शनाङ्कनयोः' इत्यस्माल्लुङि रूपम् । अत्राहन्ताशब्देन लक्ष्म्या निगरणपूर्वकाहन्तारूपताध्यवसानाद्रूपकातिशयोक्त्यलङ्कारः । तल्लक्षणं तु 'रूपकातिशयोक्तिस्स्यान्निगीर्याध्यवसानतः' इति । ॥ किमिति ॥ अतिवक्रैः अतिकुटिलैः तर्
[^१] भगवद्गीता (१०-११) ।