This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
उद्यत्कौस्तुभशोभमुत्पलवनीसच्छायमच्छायत-
स्निग्धापाङ्गतरङ्गमैक्षिषि परं ब्रह्माच्युतं शाश्वतम् ॥ ३५ ॥
किं तर्केरतिक्कैः किं फलमुपबृंहणैर्विविधैः ।
अवैक्षिषि श्रुतीनामाशयमहिराजभोगशयम् ॥ ३६ ॥
 
( 2-3-65 ) इति कर्मणि षष्ठी । क्षन्तारं तितिक्षुमित्यर्थः । जडा मलिना
घियो येषां ते जडघियः तेषां रावणादीनामिति भावः । षष्ठी पूर्ववत् । यन्तारं
निगृह्णन्तं जगतां लोकानां अन्तस्तमः अज्ञानं तस्य हन्तारं विनाशकम् । 'तेषामे-
वानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता' इति
'शास्त्रादिति भावः । अविद्यमानमुत्तरं यस्मात्तदनुत्तरं पराहन्तया परलक्ष्म्या अङ्कि-
तमुरस्स्थलं यस्येति नीलोज्ज्वलवपुरितिवत् बहुपदबहुव्रीहिर्बोघ्यः । अहन्ताशब्दो
लक्ष्मों कथमभिधत्त इति चेदत्र केचित् । श्रीमदाचार्येस्सौन्दर्यलहर्या .....पुर-
मथितुराहो पुरुषिका' इति श्लोके (7) आहोपुरुषिकात्वेन पार्वत्या वर्णनं कृतम् ।
तथा 'अहं तामालम्बे दृढतरमहन्तां पशुपतेः' इति मूकपञ्चशती श्लोके पशु-
पत्यहन्तात्वेन शिवाया एव वर्णनं कृतं वर्तत इत्येतदनुसारेण नारायणाहन्तात्वेन श्रियो
वर्णनं कृतवान् कविरिंति समाधानमाहुः । उद्यन्ती कौस्तुभस्य शोभा कान्तिर्यस्मिन्
तथाभूतम् । 'स्त्रियाः पुंवत् - ' ( 6-3-34) इत्यादिना उद्यन्तीशब्दस्य पुंवद्भावः ।
समाना छाया कान्तिर्यस्य स सच्छायः । उत्पलवन्या उत्पलवनेन सच्छायः तत्स-
मानमिति यावत् । अच्छा निर्मला आयता दीर्घास्निग्धा अपाङ्गा एव तेषां वा तरङ्गा
यस्य तं तथाभूतम् । शाश्वतं शश्वत् । सर्वेषु कालेषु भवतीति शाश्वतम् । सार्वत्रि-
कमित्यर्थः । 'शाश्वतस्तु ध्रुवो नित्यसदातनसनातनः' इत्यमरः । अविद्यमानं
च्युतं स्खलनं यस्य सोऽच्युतः तं नित्यमित्यर्थः । 'शाश्वत, शिवमच्युतम्' इति
श्रुतेः । परं निरतिशयं ब्रह्म ऐक्षिषि अपश्यम् । 'ईक्ष दर्शनाङ्कनयोः' इत्यस्माल्लुङि
रूपम् । अत्राहन्ताशब्देन लक्ष्म्या निगरणपूर्वकाहन्तारूपताध्यवसानाद्रूपकातिशयो-
क्तचलङ्कारः । तलक्षणं तु 'रूपकातिशयोक्तिस्स्यान्निगीर्याध्यवसानतः' इति ।
॥ किमिति ॥ अतिवकै: अतिकुटिलै: तर्के: कामैः । बहुधा प्रसरणात्तेषां
 
1. भगवद्गीता (10-11)।