2023-08-02 06:45:27 by Bharadwajraki
This page has been fully proofread once and needs a second look.
असकृदनुस्मरन् परतत्त्वम्, अश्रुपूर्णैर्लोचनैरविरळपुळकाङ्कितैरङ्गकैरानन्दगद्गदैश्च वचोभिरित्थमस्तावीत्
'क्षन्तारं सकलागसां जडधियां यन्तारमन्तस्तमो-
हन्तारं जगतामनुत्तरपराहन्ताङ्कितोरःस्थलम् ।
[commentary]
वस्थानम् । बुद्ध्यर्पणं तु तत्कथाश्रवणतन्नामानुकीर्तनतत्स्वरूपध्यानादिष्वेव बुद्धेरवस्थापनम् । सर्वमिदं शिवरहस्ये स्पष्टमुक्तम् । उक्तलक्षणस्यात्मार्पणस्य तत्त्वं याथातथ्यं तद्वेदितुं शीलं येषां ते तथाभूतैः । महान् अनल्पः भग एव भागः माहात्म्यं यत्नो वा येषां तैः महाभागैः महात्मभिरित्यर्थः । 'भगश्श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु' इत्यमरः । 'एतैरुपायैर्यतयस्तु विद्वानस्यैष आत्मा विशते ब्रह्म धाम' इति श्रुतेर्यत्नवतामेव तत्पदप्राप्तिश्रवणादिति भावः । अनायासेन सुखेन लभ्यं प्राप्यम् । असाधारणमन्यत्रावर्तमानं ऐश्वर्यादयः षड्गुणा एव षाड्गुण्यं यस्य स तथाभूतम् । अखिललोकानां शरण्यं रक्षणधुरीणं सर्वेषां प्रमाणानां मर्यादानां परायणं प्राप्यस्थानम् । 'सा काष्ठा सा परा गतिः' (क. उ. ११1) इति श्रुतेरिति भावः । अथवा, सर्वाणि प्रमाणानि प्रमातारः शोधिततत्त्वपदार्था इति यावत् । तेषां परायणं प्राप्यस्थानमित्यर्थः । 'द्विपरार्धे त्वतिकान्ते ब्रह्मणः परमेष्ठिनः । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥' इति स्मृतेरिति भावः । 'प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु' इत्यमरः । भगवन्तं माहात्म्यवन्तं नारायणमालक्ष्य दृष्ट्वा, असकृत् पुनः पुनः, प्रणिपतन् नमस्कुर्वन् । असकृन्मुहुरुत्थाय शिरसि मूर्धनि अञ्जलिं संयुतपाणिम् । 'तौ युतावञ्जलिः पुमान्' इत्यमरः । बध्नन्, प्रणवमोङ्कारमसकृदावर्तयन् उच्चारयन् परं निरतिशयं यत्तत्त्वं परमात्मानमनुस्मरन् ध्यायन्सन्नित्यर्थः । 'तत्त्वं विलम्बमाने स्यात् स्वरूपे परमात्मनि' इति नानार्थमाला । अश्रूणि आनन्दजनितनेत्राम्बूनि । 'दृग्दृष्टिश्चाश्रु नेत्राम्बु' इत्यमरः । तैः पूर्णैः भरितैः लोचनैः अविरळाः सान्द्राः पुलकाः कण्टकाः । 'पुलकः कण्टको लोमविक्रिया रोमहर्षणम्' इति हेमचन्द्रः । तैरङ्कितैः चिह्नितैरङ्गकैरवयवैश्च उपलक्षितः सन्निति शेषः । 'अनुकम्पायां' (५.३.७६) इति कन्प्रत्ययः । आनन्देन लक्षणया
आनन्दपारवश्येन गद्गदानि त्वराविलम्बाभ्यामस्फुटानि तथाभूतैर्वचोभिः इत्थमस्तावीत् । वक्ष्यमाणप्रकारेण गुणकीर्तनं चकारेत्यर्थः । स्तुतिप्रकारमेवाह त्रिभिः श्लोकैः ॥ क्षन्तारमिति ॥ सकलानि यानि आगांसि अपराधाः तेषाम् । 'कर्तृकर्मणोः कृति'