This page has been fully proofread once and needs a second look.

द्वितीयाभ्वासः
 
असकृदनुस्मरन् परतत्त्वम्, अश्रुपूर्णैर्लोचनैरविरळपुळकाङ्कितैरङ्गकैरान-
न्दगद्गदैश्च वचोभिरित्थमस्तावीत्
 

 
'क्षन्तारं सकलागसां जडधियां यन्तारमन्तस्तमो-

हन्तारं जगतामनुत्तरपराहन्ताङ्कितोरःस्थलम् ।
 

 
[commentary]
 
वस्थानम् । बुद्ध्यर्पणं तु तत्कथा श्रवणतन्नामानुकीर्तनतत्स्वरूपध्याना दिष्वेव बुद्धेर-
वस्थापनम् । सर्वमिदं शिवरहस्ये स्पष्टमुक्तम् । उक्तलक्षणस्यात्मार्पणस्य तत्त्वं
याथातथ्यं तद्वेदितुं शीलं येषां ते तथाभूतैः । महान् अनल्पः भग एव भाग:
गः माहात्म्यं यत्नो वा येषां तैः महाभागैः महात्मभिरित्यर्थः । 'भगश्श्रीकाममाहात्म्यवीर्य-
यत्नार्ककीर्तिषु' इत्यमरः । 'एतैरुपायैर्यतयस्तु विद्वानस्यैष आत्मा विशते ब्रह्म घाम'
धाम' इति श्रुतेर्यत्नवतामेव तत्दप्राप्तिश्रवणादिति भावः । अनायासेन सुखेन लभ्यं
प्राप्यम् । असाधारणमन्यत्रावर्तमानं ऐश्वर्यादयः षड्गुणा एव षाड्गुण्यं यस्य स
तथाभूतम् । अखिललोकानां शरण्यं रक्षणधुरीणं सर्वेषां प्रमाणानां मर्यादानां परायणं
प्राप्यस्थानम् । 'सा काष्ठा सा परा गतिः' (क. उ. ११11 ) इति श्रुतेरिति भावः ।
अथवा, सर्वाणि प्रमाणानि प्रमातार:रः शोधिततत्त्व पदार्था इति यावत् । तेषां
परायणं प्राप्यस्थानमित्यर्थः । 'द्विपरार्धे त्वतिकान्ते ब्रह्मणः परमेष्ठिन:नः । परस्यान्ते
कृतात्मानः प्रविशन्ति परं पदम् ॥"' इति स्मृतेरिति भावः । 'प्रमाणं
हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु' इत्यमरः । भगवन्तं माहात्म्यवन्तं नारायणमालक्ष्य
दृष्ट्वा, असकृत् पुनः पुनः, प्रणिपतन् नमस्कुर्वन् । असकृन्मुहुरुत्थाय शिरसि मूर्धनि
अञ्जलिं संयुतपाणिम् । 'तौ युतावञ्जलि:लिः पुमान्' इत्यमरः । बध्नन्, प्रणवमोक्ङ्कार-
मसकृदावर्तयन् उच्चारयन् परं निरतिशयं यत्तत्त्वं परमात्मानमनुस्मरन् घ्यायन्
ध्यायन्सन्नित्यर्थ:थः । 'तत्त्वं विलम्बमाने स्यात् स्वरूपे परमात्मनि' इति नानार्थमाला ।
अश्रूणि आनन्दजनितनेत्राम्बूनि । ' हम्हदृग्दृष्टिश्चाश्रु नेत्राम्बु' इत्यमरः । तैः पूर्णैः
भरितैः लोचनैः अविरळाः सान्द्राः पुलकाः कण्टका:काः । 'पुलक:कः कण्टको लोम-
विक्रिया रोमहर्षणम्' इति हेमचन्द्रः । तैरङ्कितैः चिह्नितैरङ्ग कैरवयवैश्च उपलक्षितः
सन्निति शेष:षः । 'अनुकम्पायां' ( 5-3-76५.३.७६) इति कन्प्रत्यय:यः । आनन्देन लक्षणया

आनन्दपारवश्येन गद्गदानि त्वरा विलम्बाभ्यामस्फुटानि तथाभूतैर्वचोभिः इत्थमस्ता-
वीत् । वक्ष्यमाणप्रकारेण गुणकीर्तनं चकारेत्यर्थः । स्तुतिप्रकारमेवाह त्रिभिः श्लोकैः
॥ क्षन्तारमिति ॥ सकलानि यानि आगांसि अपराधाः तेषाम् । 'कर्तृकर्मणोः कृति '
N - 22
 
'