This page has not been fully proofread.

द्वितीयाभ्वासः
 
असकृदनुस्मरन् परतत्त्वम्, अश्रुपूर्णैर्लोचनैरविरळपुळकाङ्कितैरङ्गकैरान-
न्दगद्गदैश्च वचोभिरित्थमस्तावीत्
 
'क्षन्तारं सकलागसां जडधियां यन्तारमन्तस्तमो-
हन्तारं जगतामनुत्तरपराहन्ताङ्कितोरःस्थलम् ।
 
वस्थानम् । बुद्धयर्पणं तु तत्कथा श्रवणतन्नामानुकीर्तनतत्स्वरूपध्याना दिष्वेव बुद्धेर-
वस्थापनम् । सर्वमिदं शिवरहस्ये स्पष्टमुक्तम् । उक्तलक्षणस्यात्मार्पणस्य तत्त्वं
याथातथ्यं तद्वेदितुं शीलं येषां ते तथाभूतैः । महान् अनल्पः भग एव भाग:
माहात्म्यं यत्नो वा येषां तैः महाभागैः महात्मभिरित्यर्थः । 'भगश्श्रीकाममाहात्म्यवीर्य-
यत्नार्ककीर्तिषु' इत्यमरः । 'एतैरुपायैर्यतयस्तु विद्वानस्यैष आत्मा विशते ब्रह्म घाम'
इति श्रुतेर्यलवतामेव तत्वदप्राप्तिश्रवणादिति भावः । अनायासेन सुखेन लभ्यं
प्राप्यम् । असाधारणमन्यत्रावर्तमानं ऐश्वर्यादयः षड्गुणा एव षाड्गुण्यं यस्य स
तथाभूतम् । अखिललोकानां शरण्यं रक्षणधुरीणं सर्वेषां प्रमाणानां मर्यादानां परायणं
प्राप्यस्थानम् । 'सा काष्ठा सा परा गतिः' (क. उ. 11 ) इति श्रुतेरिति भावः ।
अथवा, सर्वाणि प्रमाणानि प्रमातार: शोधिततत्त्व पदार्था इति यावत् । तेषां
परायणं प्राप्यस्थानमित्यर्थः । 'द्विपरार्धे त्वतिकान्ते ब्रह्मणः परमेष्ठिन: । परस्यान्ते
कृतात्मानः प्रविशन्ति परं पदम् ॥" इति स्मृतेरिति भावः । 'प्रमाणं
हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु' इत्यमरः । भगवन्तं माहात्म्यवन्तं नारायणमालक्ष्य
दृष्ट्वा, असकृत् पुनः पुनः, प्रणिपतन् नमस्कुर्वन् । असकृन्मुहुरुत्थाय शिरसि मूर्धनि
अञ्जलिं संयुतपाणिम्। 'तौ युतावञ्जलि: पुमान्' इत्यमरः । बध्नन्, प्रणवमोक्कार-
मसकृदावर्तयन् उच्चारयन् परं निरतिशयं यत्तत्त्वं परमात्मानमनुस्मरन् घ्यायन्
सन्नित्यर्थ: । 'तत्त्वं विलम्बमाने स्यात् स्वरूपे परमात्मनि' इति नानार्थमाला ।
अश्रूणि आनन्दजनितनेत्राम्बूनि । ' हम्हष्टिश्चाश्रु नेत्राम्बु' इत्यमरः । तैः पूर्णैः
भरितैः लोचनैः अविरळाः सान्द्राः पुलकाः कण्टका: । 'पुलक: कण्टको लोम-
विक्रिया रोमहर्षणम्' इति हेमचन्द्रः । तैरकितैः चिह्नितैरङ्ग कैरवयवैश्च उपलक्षितः
सन्निति शेष: । 'अनुकम्पायां' ( 5-3-76) इति कन्प्रत्यय: । आनन्देन लक्षणया
आनन्दपारवश्येन गद्गदानि त्वरा विलम्बाभ्यामस्फुटानि तथाभूतैर्वचोभिः इत्थमस्ता-
वीत् । वक्ष्यमाणमकारेण गुणकीर्तन चकारेत्यर्थः । स्तुतिप्रकारमेवाह त्रिभिः श्लोकैः
॥ क्षन्तारमिति ॥ सकलानि यानि आगांसि अपराधाः तेषाम् । 'कर्तृकर्मणोः कृति '
N - 22