2023-09-13 09:25:43 by Bharadwajraki
This page has been fully proofread twice.
र्लभमश्रुतानुश्रवैरमीमांसितोपनिषदाशयैरनध्यासितनिदिध्यासनपथैरक्षाळितकर्माशयैरनुल्लङ्घिता- विद्यकपर्वपञ्चकैः, अनायासलभ्यमतिदृढावलम्बितगुरुचरणैरपायोपायवृत्तिपराङ्मुखैरप्रकम्प्य- विश्वाससम्पदवष्टम्भशालिभिरात्मार्पणतत्त्ववेदिभिर्महाभागैः, असाधारणषाड्गुण्यम्, अखिललोकशरण्यमालक्ष्य सर्वप्रमाणपरायणं भगवन्तं नारायणम् असकृत्प्रणिपतन्, असकृदुत्थाय, बध्नन् शिरस्यञ्जलिम्, असकृदावर्तयन् प्रणवम्,
[commentary]
इत्यमरः । प्रत्यक्षादिप्रमाणैरिति वाऽर्थः । अप्रमेयं ज्ञातुमशक्यमित्यर्थः । अक्षोभ्यः शोषयितुमशक्यो विज्ञानसागरः विज्ञानसमुद्रः तथाभूतम् । प्रसिद्धसागर इवागस्त्यादिभिश्शोषयितुमशक्य इति भावः । अक्षयं नाशरहितम् । महान्तः आनन्दाः तेषां शेवधिं निधिम् । 'निधिर्ना शेवधिर्भेदा' इत्यमरः । अश्रुताः अश्रवणविषयीकृताः अनुश्रवाः वेदाः यैस्ते तथाभूतैः अमीमांसितः अविचारितः उपनिषदामाशयः तात्पर्यं यैस्ते तथाभूतैः अनध्यासितः अनध्युषितः निदिध्यासनं निर्विकल्पसमाधिः स एव पन्था मार्गो यैस्ते तथाभूतैः । अक्षाळितानि अपर्युदस्तानि, अशोधितानीति वा । कर्माणि सङ्कल्पलक्षणानि यैस्ते अक्षाळितकर्माण तथाविधा आशयाः मनांसि येषां तैः । 'सङ्कल्पः कर्म मानसम्' इत्यमरः । तथाभूतैः । अनुल्लङ्घितानि अनतिक्रान्तानि अविद्यासम्बन्धीनि पञ्चसङ्ख्याकानि पर्वाणि तमोमोहमहामोहतामित्स्रान्धतामिस्रनामानि यैस्ते तथाभूतैः । अविद्यायाः पञ्चपर्वत्वे प्रमाणभूतं वचनं सुरेश्वराचार्यैरुदाहृतम् - 'तमोमोहमहामोहतामिस्राण्यन्यन्धसंज्ञिकः । अविद्या पञ्च - पर्वैषा प्रादुर्भूता महात्मनः ॥' इति । तथाभूतैः अतिदुर्लभम् अतिदुष्प्रापम् । 'नावेदविन्मनुते तं बृहन्तम्' इति श्रुतेः, 'तं त्वौपनिषदं पृच्छामि' इति श्रुतेश्च । उपनिषद्वाक्यजन्यश्रवणादिसहकृततत्त्वसाक्षात्कारमन्तरा तत्पदं दुर्लभमिति भावः । अतिदृढम् अतिगाढम्, अवलम्बितावाश्रितौ गुरोश्चरणौ यैस्ते तथाभूतैः । अपायो नाशः स च । 'अपायव्यत्ययौ नाशः' इति विश्वः । उपायः उपागतिः । 'उपायस्स्यादुपागतौ' इति नानार्थमाला । स च तयोरपायोपाययोर्व्ययलाभयोरिति यावत् । वृत्तिर्वर्तनं तस्याः पराङ्मुखाः अवाङ्मुखाः विनिर्गता इति यावत् । विद्यमानस्य व्यये नूतनस्य लाभे वा विकाररहिता इति भावः । तथाभूतैः अप्रकम्प्यः स्थिरः यो विश्वासः रक्षिष्यतीति विस्रम्भः तस्य सम्पदतिशयः तया यः अवष्टम्भः गर्वः तच्छालिभिः । आत्मार्पणं नाम आत्मनोः शरीरबुद्ध्योरर्पणं । तत्र शरीरार्पणं तु सर्वदा तदर्चनवन्दनतदालयसर्म्माजनादिकर्मस्वेव शरीरस्या-
[commentary]
इत्यमरः । प्रत्यक्षादिप्रमाणैरिति वाऽर्थः । अप्रमेयं ज्ञातुमशक्यमित्यर्थः । अक्षोभ्यः शोषयितुमशक्यो विज्ञानसागरः विज्ञानसमुद्रः तथाभूतम् । प्रसिद्धसागर इवागस्त्यादिभिश्शोषयितुमशक्य इति भावः । अक्षयं नाशरहितम् । महान्तः आनन्दाः तेषां शेवधिं निधिम् । 'निधिर्ना शेवधिर्भेदा' इत्यमरः । अश्रुताः अश्रवणविषयीकृताः अनुश्रवाः वेदाः यैस्ते तथाभूतैः अमीमांसितः अविचारितः उपनिषदामाशयः तात्पर्यं यैस्ते तथाभूतैः अनध्यासितः अनध्युषितः निदिध्यासनं निर्विकल्पसमाधिः स एव पन्था मार्गो यैस्ते तथाभूतैः । अक्षाळितानि अपर्युदस्तानि, अशोधितानीति वा । कर्माणि सङ्कल्पलक्षणानि यैस्ते अक्षाळितकर्माण तथाविधा आशयाः मनांसि येषां तैः । 'सङ्कल्पः कर्म मानसम्' इत्यमरः । तथाभूतैः । अनुल्लङ्घितानि अनतिक्रान्तानि अविद्यासम्बन्धीनि पञ्चसङ्ख्याकानि पर्वाणि तमोमोहमहामोहतामि