This page has been fully proofread once and needs a second look.

र्लभमश्रुतानुश्रवैरमीमांसितोपनिषदाशयैरनध्यासितनिदिध्यासनपथैरक्षाळितकर्माशयैरनुल्लङ्घिता- विद्यकपर्वपञ्चकैः, अनायासलभ्यमतिदृढावलम्बितगुरुचरणैरपायोपायवृत्तिपराङ्मुखैरप्रकम्प्य- विश्वाससम्पदवष्टम्भशालिभिरात्मार्पणतत्त्ववेदिभिर्महाभागैः, असाधारणषाड्गुण्यम्, अखिललोकशरण्यमालक्ष्य सर्वप्रमाणपरायणं भगवन्तं नारायणम् असकृत्प्रणि-
पतन्, असकृदुत्थाय, बध्नन् शिरस्यञ्जलिम्, असकृदावर्तयन् प्रणवम्,

[commentary]
 
इत्यमरः । प्रत्यक्षादिप्रमाणैरिति वाऽर्थः । अप्रमेयं ज्ञातुमशक्यमित्यर्थः । अक्षोभ्यः
शोषयितुमशक्यो विज्ञानसागर:रः विज्ञानसमुद्रः तथाभूतम् । प्रसिद्धसागर इवागस्त्या-
दिभिश्शोषयितुमशक्य इति भावः । अक्षयं नाशरहितम् । महान्तः आनन्दाः तेषां
शेवधिं निधिम् । 'निधिर्ना शेवधिर्भेदा' इत्यमरः । अश्रुता:ताः अश्रवणविषयीकृताः
अनुश्रवाः वेदाः यैस्ते तथाभूतैः अमीमांसितः अविचारितः उपनिषदामाशयः तात्पर्यं
यैस्ते तथा भूतैः अनध्यासित:तः अनध्युषितः निदिध्यासनं निर्विकल्पसमाधिः स एव
पन्था मार्गो यैस्ते तथाभूतैः । अक्षाळितानि अपर्युदस्तानि, अशोधितानीति
वा । कर्माणि सङ्कल्पलक्षणानि यैस्ते अक्षाळितकर्माण तथाविधा आशयाः
मनांसि येषां तैः । 'सङ्कल्प :पः कर्म मानसम्' इत्यमरः । तथाभूतैः । अनुल्लङ्घितानि
अनतिक्रान्तानि अविद्यासम्बन्धीनि पञ्चसङ्ख्याकानि पर्वाणि तमोमोहमहामोहता-
मित्रान्धतामिस्रनामानि यैस्ते तथाभूतैः । अविद्यायाः पञ्चपर्त्वे प्रमाणभूतं वचनं
सुरेश्वराचार्यैरुदाहृतम् - 'तमोमोहमहामोह तामिस्राण्यन्यन्धसंज्ञिकः । अविद्या पञ्च -
पर्वे
पर्वैषा प्रादुर्भूता महात्मनः ॥' इति । तथाभूतैः अतिदुर्लभम् अतिदुष्प्रापम् ।
'नावेदविन्मनुते तं बृहन्तम्' इति श्रुतेः, 'तं त्वौपनिषदं पृच्छामि' इति श्रुतेश्च ।
उपनिषद्वाक्यजन्यश्रवणादिसहकृततत्त्वसाक्षात्कारमन्तरा तत्पदं दुर्लभ मिति भावः ।
अतिदृढम् अतिगाढम्, अवलम्बितावाश्रितौ गुरोश्चरणौ यैस्ते तथाभूतैः । अपायो
नाशः स च । 'अपायव्यत्ययौ नाशः' इति विश्वः । उपाय:यः उपागतिः ।
'उपायस्स्यादुपागतौ ' इति नानार्थमाला । स च तयोरपायोपाययो त्र्येर्व्ययला भयो-
रिति यावत् । वृत्तिर्वर्तनं तस्याः पराङ्मुखाः अवाङ्मुखाः विनिर्गता इति यावत् ।
विद्यमानस्य व्यये नूतनस्य लाभे वा विकाररहिता इति भावः । तथाभूतैः
अप्रकम्प्यः स्थिरः यो विश्वासः रक्षिष्यतीति विस्रम्भः तस्य सम्पदतिशय: तया
यः तया यः अवष्टम्भः गर्वः तच्छालिभिः । आत्मार्पणं नाम आत्मनोः शरीरबुद्ध्योरर्पणं ।
तत्र शरीरार्पणं तु सर्वदा तदर्चनवन्दनतदालय सर्म्माजनादिकर्मस्वेव शरीरस्या-
6
 
१६८
 
-