This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
र्लभमश्रुतानुश्रवैरमीमांसितोपनिषदाशयैरनध्यासितनिदिध्यासनपथैरक्षा-
ळितकर्माशयैरनुल्लङ्घताघिता- विद्यकपर्वपञ्चकःकैः, अनायासलभ्यमतिदृढावल-
म्बितगुरुचरणैर पायोपायवृत्तिपराङ्मुखैरप्रकम्प्य- विश्वाससम्पदवष्टम्भशा-
लिभिरात्मार्पणतत्त्ववेदिभिर्महाभागःगैः, असाधारणषाड्गुण्यम्, अखिल-
लोकशरण्यमालक्ष्य सर्वप्रमाणपरायणं भगवन्तं नारायणम् असकृत्प्रणि-

पतन्, असकृदुत्थाय, बध्नन् शिरस्यञ्जलिम्, असकृदावर्तयन् प्रणवम्,

इत्यमरः । प्रत्यक्षादिप्रमाणैरिति वाऽर्थः । अप्रमेयं ज्ञातुमशक्यमित्यर्थः । अक्षोभ्यः

शोषयितुमशक्यो विज्ञानसागर: विज्ञानसमुद्र तथाभूतम् । प्रसिद्धसागर इवागस्त्या-

दिभिश्शोषयितुमशक्य इति भावः । अक्षयं नाशरहितम् । महान्तः आनन्दाः तेषां

शेवधिं निधिम् । 'निधिर्ना शेवधिर्भेदा' इत्यमरः । अश्रुता: अश्रवणविषयीकृताः

अनुश्रवाः वेदाः यैस्ते तथाभूतैः अमीमांसितः अविचारितः उपनिषदामाशयः तात्पर्यं

यैस्ते तथा भूतैः अनध्यासित: अनध्युषितः निदिध्यासनं निर्विकल्पसमाधिः स एव

पन्था मार्गो यैस्ते तथाभूतैः । अक्षाळितानि अपर्युदस्तानि, अशोधितानीति

वा । कर्माणि सङ्कल्पलक्षणानि यैस्ते अक्षाळितकर्माण तथाविधा आशयाः

मनांसि येषां तैः । 'सङ्कल्प : कर्म मानसम्' इत्यमरः । तथाभूतैः । अनुल्लङ्घितानि

अनतिक्रान्तानि अविद्यासम्बन्धीनि पञ्चसङ्ख्याकानि पर्वाणि तमोमोहमहामोहता-

मित्रान्धतामिस्रनामानि यैस्ते तथाभूतैः । अविद्यायाः पञ्चपर्यत्वे प्रमाणभूतं वचनं

सुरेश्वराचार्यैरुदाहृतम्-'तमोमोहमह मोह तामिस्राण्यन्यन्धसंज्ञिकः । अविद्या पञ्च-

पर्वेषा प्रादुर्भूता महात्मनः ॥' इति । तथाभूतैः अतिदुर्लभम् अतिदुष्प्रापम् ।

'नावेदविन्मनुते तं बृहन्तम्' इति श्रुतेः, 'तं त्वौपनिषदं पृच्छामि' इति श्रुतेश्च ।

उपनिषद्वाक्यजन्यश्रवणादिसहकृततत्त्वसाक्षात्कारमन्तरा तत्पदं दुर्लभ मिति भावः ।

अतिदृढम् अतिगाढम्, अवलम्बितावातौ गुरोश्चरणौ यैस्ते तथाभूतैः । अपायो

नाशः स च । अपायव्यत्ययौ नाशः' इति विश्वः । उपाय: उपागतिः ।

'उपायस्स्यादुपागतौ ' इति नानार्थमाला । स च तयोरपायोपाययो त्र्येयला भयो-

रिति यावत् । वृत्तिर्वर्तनं तस्याः पराङ्मुखाः अवाङ्मुखाः विनिर्गता इति यावत् ।

विद्यमानस्य व्यये नूतनस्य लाभे वा विकाररहिता इति भावः । तथाभूतैः

अप्रकम्प्यः स्थिरः यो विश्वासः रक्षिष्यतीति विस्रम्भः तस्य सम्पदतिशय: तया

यः अवष्टम्भः गर्वः तच्छालिभिः । आत्मार्पणं नाम आत्मनोः शरीरबुद्धयोरर्पणं ।

तत्र शरीर र्पणं तु सर्वदा तदर्चनवन्दनतदालय सर्म्माजनादिकर्मस्वेव शरीरस्या-

6
 

 
१६८
 

 
-