This page has been fully proofread twice.

नीन्, कार्णवेष्टनिकविलसन्मुखारविन्दकामनीयकावलोकनविस्मयमानकमलावितीर्णचुम्बनासक्त- ताम्बूलरागसम्पद्विडम्बिना पद्मरागतिलकेन परिष्कृतफालवलयम् अतिनिर्मलफणामण्डलोदरप्रतिबिम्बितैरहिराजफणामणिगणैरिव किरीटरत्नैरभिरञ्जितमहार्होपबर्हम्, अतिविनयभारभङ्गुरैरनन्यार्पितदृष्टिभिराकृतिमद्भिरायुधैः पञ्चभिरभितोऽपि यथोचितमासेव्यमानम्, अनुपमेयं प्राकृतैर्भावः, अप्रमेयमनुत्तरपदारोहपङ्गुभिरर्वाचीनैः प्रमाणैः, अक्षोभ्यं विज्ञानसागरम्, अक्षयं महानन्दशेवधिम्, अतिदु-
 
[commentary]
 
अन्यशरणं रक्षकान्तरं येषां ते तान् । महान्तो मुनयः मननशीलाः ताननुगृह्णन्तं उद्धरन्तं, पुरुषार्थदानादिति भावः । कर्णवेष्टनमेव कार्णवेष्टनिकम् । स्वार्थे ठक्प्रत्ययः । कुण्डलमित्यर्थः । 'कर्णिका ताळपत्रं स्यात्कुण्डलं कर्णवेष्टनम्' इत्यमरः । तेन विलसत् प्रकाशमानं यन्मुखारविन्दं मुखकमलं, तस्य यत्कामनीयकं रमणीयत्वं, तस्यावलोकनेन विस्मयमाना आश्चर्यवती या कमला लक्ष्मीः, तथाया वितीर्णं विश्राणितं, यच्चुम्बनं तेन आसक्ता सङ्क्रान्ता या ताम्बूलरागस्य वीटीरसारुण्यस्य सम्पदतिशयः तद्विडम्बिना तदनुकारिणा पद्मरागमेव तिलकं तेन । 'तमालपत्रतिलकचित्रकाणि विशेषकम्' इत्यमरः । परिष्कृतः अलङ्कृतः फालवलयः ललाटदेशो यस्य स तथाभूतम् । अतिनिर्मलाः अत्यन्तधवळाः याः फणाः स्फटाः । 'स्फटायां तु फणा द्वयोः' इत्यमरः । तासां मण्डलस्य समूहस्य उदरं मध्यदेशस्तस्मिन् प्रतिबिम्बितैः अहिराजस्य शेषस्य याः
फणाः तासां मणिगणैः मणिसमूहैरिव स्थितैः, किरीटरत्नैः, अभिरञ्जितं रक्तं कृतं महार्हमुत्तममुपबर्हमुपधानं यस्य । 'उपधानं तूपबर्हः' इत्यमरः । तथाभूतम् । अतिविनयः अत्यन्तभक्तिः स एव भारः तेन भङ्गुरैः भुग्नैः, नम्रैरिति यावत् । अनन्यार्पिताः अन्यत्र अविन्यस्ताः दृष्टयो दृशो येषां तैः आकृतिमद्भिर्मूर्तिमद्भिः पञ्चभिरायुधैः चक्रगदाखड्गादिभिः अभितः परितोऽपि यथोचितमासेव्यमानं प्रकृतिर्माया तस्यां भवाः आभासत्वेन स्थिताः प्राकृताः प्रकृतिसम्बन्धिन इति
यावत् । तथाविधैः भावैः जीवात्मभिः । 'भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु' इत्यमरः । अनुपमेयं तुलनानर्हम् अविद्यमानमुत्तरं यस्मात्तत्तथाविधं यत्पदं स्थानं तस्यारोहः आरोहणं तस्मिन् विषये पङ्गुभिः विकलाङ्गतुल्यैः अर्वाचीनैः जघन्यैरिति तात्पर्यार्थः । प्रमाणैः शास्त्रैः । 'प्रमाणं हेतुमर्यादा शास्त्रेयत्ताप्रमातृषु'