2023-08-01 09:40:09 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  द्वितीयाश्वासः
  
  
  
   
  
  
  
  नीन्, कार्णवेष्टनिकविलसन्मुखारविन्दका मनीयकावलोकन विस्मयमानक-
  
  
  
  मलावितीर्णचुम्बनासक्त- ताम्बूलरागसम्पद्विडम्चिबिना पद्मरागतिलकेन परि-
  
  
  
  ष्कृतफालवलयम् अतिनिर्मलफणा मण्डलोदरप्रतिबिम्बितैरहिराजफणा-
  
  
  
  मणिगणैरिव किरीटरत्नैरभिरञ्जित महार्होपबर्हम्, अतिविनयभारभङ्गुरै-
  
  
  
  रनन्यार्पितदृष्टिभिराकृतिमद्भिरायुधैः पञ्चभिरभितोऽपि यथोचितमासेव्य-
  
  
  
  मानम्, अनुपमेयं प्राकृतैर्भावः, अप्रमेयमनुत्तरपदारोहपङ्गुभिरर्वाचीनैः
  
  
  
   प्रमाणैः, अक्षोभ्यं विज्ञानसागरम्, अक्षयं महानन्दशेवधिम्, अतिदु
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  अन्यशरणं रक्षकान्तरं येषां ते तान् । महान्तो मुनयः मननशीला:लाः ताननुगृह्णन्तं
  
  
  
   उद्धरन्तं, पुरुषार्थदानादिति भावः । कर्णवेष्टनमेव कार्णवेष्टनिकम् । स्वार्थे
  
  
  
   ठक्प्रत्ययः । कुण्डलमित्यर्थ:थः । 'कर्णिका ताळपत्रं स्यात्कुण्डलं कर्णवेष्टनम्'
  
  
  
   इत्यमरः । तेन विलसत् प्रकाशमानं यन्मुखारविन्दं मुखकमलं, तस्य यत्
  
  
  
  कामनीयकं रमणीयत्वं, तस्यावलोकनेन विस्मयमाना आश्चर्यवती या कमला
  
  
  
   लक्ष्मीः, तथा वितीर्ण विश्राणित, यतं, यच्चुम्बनं तेन आसक्ता सङ्क्रान्ता या ताम्बू-
  
  
  
  लरागस्य वीटीरसारुण्यस्य सम्पदतिशय:यः तद्विडम्चिबिना तदनुकारिणा पद्मरागमेव
  
  
  
   तिलकं तेन । 'तमालपत्रतिलक चित्रकाणि विशेषकम्' इत्यमरः । परिष्कृतः
  
  
  
  अलडू अलङ्कृतः फालवलय:यः ललाटदेशो यस्य स तथाभूतम् । अति निर्मलाः अत्यन्त-
  
  
  
  घवळा:धवळाः याः फणा:णाः स्फटा:टाः । 'स्फटायां तु फणा द्वयोः' इत्यमरः । तासां
  
  
  
   मण्डलस्य समूहस्य उदरं मध्यदेशस्तस्मिन् प्रतिबिम्बितैः अहिराजस्य शेषस्य याः
  
  
  
  
  
  
  
  फणाः तासां मणिगणैः मणिसमूहैरिव स्थितैः, किरीटरलैःत्नैः, अभिरञ्जितं रक्तं कृतं
  
  
  
   महार्हमुत्तममुपबर्हमुपधानं यस्य । 'उपधानं तूपबई : र्हः' इत्यमरः । तथाभूतम् ।
  
  
  
   अतिविनयः अत्यन्तभक्तिः स एव भारः तेन भङ्गरैगुरैः भुमैःग्नैः, नम्रैरिति यावत् ।
  
  
  
   अनन्यार्पिता: अन्यत्र अविन्यस्ताताः अन्यत्र अविन्यस्ताः दृष्टयो दृशो येषां तैः आकृतिम द्भिर्मूर्तिमद्भिः
  
  
  
   पञ्चभिरायुधैः चकक्रगदाखड्गादिभि:भिः अभितः परितोऽपि यथोचितमासेव्यमानं
  
  
  
   प्रकृतिर्माया तस्यां भवाः आभासत्वेन स्थिताः प्राकृताः प्रकृतिसम्बन्धिन इति
  
  
  
  
  
  
  
  यावत् । तथाविधैः भावै:वैः जीवात्मभिः । 'भावस्सत्तास्वभावाभिप्रायचेष्टात्मज-
  
  
  
  न्मसु' इत्यमरः । अनुपमेयं तुलनानर्हम् अविद्यमानमुत्तरं यस्मात्तत्तथाविघंधं यत्पदं
  
  
  
   स्थानं तस्यारोहः आरोहणं तस्मिन् विषये पङ्गगुभिः विकलाङ्गतुल्यैः अर्वाचीनैः
  
  
  
   जघन्यैरिति तात्पर्यार्थः । प्रमाणैः शास्त्रैः । 'प्रमाणं हेतुमर्यादा शास्त्रेयत्ता प्रमातृषु '