This page has not been fully proofread.

द्वितीयाश्वासः
 
नीन्, कार्णवेष्टनिकविलसन्मुखारविन्दका मनीयकावलोकन विस्मयमानक-
मलावितीर्णचुम्बनासक्तताम्बूलरागसम्पद्विडम्चिना पद्मरागतिलकेन परि-
ष्कृतफालवलयम् अतिनिर्मलफणा मण्डलोदरप्रतिबिम्बितैरहिराजफणा-
मणिगणैरिव किरीटरत्नैरभिरञ्जित महार्होपबर्हम्, अतिविनयभारभङ्गुरै-
रनन्यार्पितदृष्टिभिराकृतिमद्भिरायुधैः पञ्चभिरभितोऽपि यथोचितमासेव्य-
मानम्, अनुपमेयं प्राकृतैर्भावः, अप्रमेयमनुत्तरपदारोहपङ्गुभिरर्वाचीनैः
प्रमाणैः, अक्षोभ्यं विज्ञानसागरम्, अक्षयं महानन्दशेवधिम्, अतिदु
 
अन्यशरणं रक्षकान्तरं येषां ते तान् । महान्तो मुनयः मननशीला: ताननुगृह्णन्तं
उद्धरन्तं, पुरुषार्थदानादिति भावः । कर्णवेष्टनमेव कार्णवेष्टनिकम् । स्वार्थे
ठक्प्रत्ययः । कुण्डलमित्यर्थ: । 'कर्णिका ताळपत्रं स्यात्कुण्डलं कर्णवेष्टनम्'
इत्यमरः । तेन विलसत् प्रकाशमानं यन्मुखारविन्दं मुखकमलं, तस्य यत्
कामनीयकं रमणीयत्वं, तस्यावलोकनेन विस्मयमाना आश्चर्यवती या कमला
लक्ष्मीः, तथा वितीर्ण विश्राणित, यचुम्बनं तेन आसक्ता सङ्क्रान्ता या ताम्बू-
लरागस्य वीटीरसारुण्यस्य सम्पदतिशय: तद्विडम्चिना तदनुकारिणा पद्मरागमेव
तिलकं तेन । 'तमालपत्रतिलक चित्रकाणि विशेषकम्' इत्यमरः । परिष्कृतः
अलडूकृतः फालवलय: ललाटदेशो यस्य स तथाभूतम् । अति निर्मलाः अत्यन्त-
घवळा: याः फणा: स्फटा: । 'स्फटायां तु फणा द्वयोः' इत्यमरः । तासां
मण्डलस्य समूहस्य उदरं मध्यदेशस्तस्मिन् प्रतिबिम्बितैः अहिराजस्य शेषस्य याः
फणाः तासां मणिगणैः मणिसमूहैरिव स्थितैः, किरीटरलैः, अभिरञ्जितं रक्तं कृतं
महार्हमुत्तममुपबर्हमुपधानं यस्य । 'उपधानं तूपबई : ' इत्यमरः । तथाभूतम् ।
अतिविनयः अत्यन्तभक्तिः स एव भारः तेन भङ्गरै भुमैः, नम्रैरिति यावत् ।
अनन्यार्पिता: अन्यत्र अविन्यस्ता दृष्टयो दृशो येषां तैः आकृतिम द्भिर्मूर्तिमद्भिः
पञ्चभिरायुधैः चकगदाखड्गादिभि: अभितः परितोऽपि यथोचितमासेव्यमानं
प्रकृतिर्माया तस्यां भवाः आभासत्वेन स्थिताः प्राकृताः प्रकृतिसम्बन्धिन इति
यावत् । तथाविधैः भावै: जीवात्मभिः । 'भावस्सत्तास्वभावाभिप्रायचेष्टात्मज-
न्मसु' इत्यमरः । अनुपमेयं तुलनानर्हम् अविद्यमानमुत्तरं यस्मात्तत्तथाविघं यत्पदं
स्थानं तस्यारोहः आरोहणं तस्मिन् विषये पङ्गभिः विकलाङ्गतुल्यैः अर्वाचीनैः
जघन्यैरिति तात्पर्यार्थः । प्रमाणैः शास्त्रैः । 'प्रमाणं हेतुमर्यादा शास्त्रेयत्ता प्रमातृषु '