This page has been fully proofread twice.

द्यलंकृतैश्चतुर्भिर्भुजैस्सूचयन्तमिव चतुर्व्यूहताम्, अहर्मुखविकसदाम्रपल्लवोल्लासिनि दन्तच्छदे विप्रकीर्णतया सान्ध्यरागसम्मूर्च्छितचन्द्रिकोदग्रानुकरणमन्दस्मितेन कलिकलुषजीवाशयप्रसादनकतकरेणुभिः कैवल्यलक्ष्मीस्वयंवरदामभिरिव कलितनानावर्णविन्यासपेशलैः परिवहत्करुणासारसम्पातशीतलैः कटाक्षैरप्यनुगृह्णन्तमनन्यशरणान् महामु-
 
[commentary]
 
तीयपादे केषांचिन्मतनिराकरणावसरे 'भागवता मन्यन्ते' इत्युपक्रम्य 'भगवानेवैको वासुदेवो निरञ्जनज्ञानस्वरूपः परमार्थतत्त्वं, स च चतुर्धा आत्मानं प्रविभज्य प्रतिष्ठितो वासुदेवव्यूहरूपेण सङ्कर्षणव्यूहरूपेण प्रद्युम्नव्यूहरूपेण अनिरुद्धव्यूहरूपेण च । वासुदेवो नाम परमात्मा, सङ्कर्षणो नाम जीवः, प्रद्युम्नो नाम मनः, अनिरुद्धो नामाहङ्कारः, तेषां वासुदेवः परा प्रकृतिरितरे तु सङ्कर्षणादयः कार्यम्, तमित्थम्भूतं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वषेशतमिष्ट्वा भगवन्तमेव प्रतिपद्यन्ते' इति भगवदाचार्यैरुपदिष्टम् । अहर्मुखं उषःकालः तस्मिन् विलसन् प्रकाशमानो य आम्रस्य चूतवृक्षस्य पल्लवः किसलयं स इव उल्लसितुं प्रकाशितुं शीलं यस्य स उल्लासी । ताच्छीलिको णिनिप्रत्ययः । तस्मिन् दन्तच्छदे ओष्ठे प्रकीर्णतया विक्षिप्ततया सन्ध्याया अयं सान्ध्यः स चासौ यो रागः तेन सम्मूर्च्छिता व्यतिकृता, मिळितेति यावत् । या चन्द्रिका
ज्योत्स्ना तस्या उद्गारः प्रसरः । 'निगारोद्गारविक्षाव' इत्यमरः । तमनुकर्तुं शीलं यस्य तत्तथाभूतेन मन्दस्मितेन । 'सोत्प्रासस्तु मनाक्स्मितम् इत्यमरः । कलिः कलियुगं तस्मिन् तेन वा कलुषाः मलिनाः ये जीवानां प्राणिनां आशयाः अशेरते संस्कारा एष्विति व्युत्पत्त्या मनांसीत्यर्थः । तेषां प्रसादनाय निर्मलीकरणाय कतकाः जलशोधकबीजविशेषाः, तेषां रेणुभिः परागैरिव स्थितैः यथा कतकरेणवः कर्दमांशमपनुद्य जलं निर्मलयन्ति तथा भगवत्कटाक्षा अपि कलिकालुष्यांशमपनुद्य जीवाशयान्निर्मलीकुर्वन्तीति भावः । कलितः कृतः नानावर्णानां शुक्लपीतादीनां विन्यासः स्थितिः तेन पेशलैः रमणीयैः कैवल्यमुक्तिरेव लक्ष्मीः सौभाग्यदेवता तस्यास्स्वयंवरदामानि स्वयंवरणार्थमालाः तैरिव स्थितैः । कैवल्ये सति परापेक्षाराहित्यात्तस्य लक्ष्मीत्वमिति भावः । परिवहन्ती या करुणा कृपा, तस्या आसारः प्रसरणं, तस्य सम्पातेन सम्बन्धेन शीतलैः । कृपारसमेळनात्कटाक्षाणां शीतलत्वमिति भावः । एवंविधैः कटाक्षैः न विद्यते