This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
द्यलंकृतैश्चतुर्भिर्भुजैस्सूचयन्तमिव चतुर्व्यूहताम्, अहर्मुखविकसदाम्रपल्ल-
वोल्लासिनि दन्तच्छदे विप्रकीर्णतया सान्ध्यरागसम्मृमूर्च्छितचन्द्रि-
कोदग्रानुकरणमन्दस्मितेन कलिकलुषजीवाशयप्रसादनकतकरेणुभिः
कैवल्यलक्ष्मीस्त्रयंवरदामभिरिव कलितनानावर्णविन्यासपेशलैः परि-
वहत्करुणासारसम्पातशीतलैः कटाक्षैरप्यनुगृह्णन्तमनन्यशरणान् महामु -
 
9
 
9
 

 
[commentary]
 
तीयपादे केषांचिन्मतनिराकरणावसरे 'भागवता मन्यन्ते' इत्युपक्रम्य 'भगवानेवै-
को वासुदेवो निरञ्जनज्ञानस्वरूप:पः परमार्थतत्त्वं, स च चतुर्धा आत्मानं
प्रविभज्य प्रतिष्ठितो वासुदेवव्यूहरूपेण सङ्कर्षणव्यूहरूपेण प्रद्युम्नव्यूहरूपेण
अनिरुद्धव्यूहरूपेण च । वासुदेवो नाम परमात्मा, सङ्कर्षणो नाम जीव:वः, प्रद्युम्नो
नाम मनः, अनिरुद्धो नामाहङ्कारः, तेषां वासुदेव:वः परा प्रकृतिरितरे तु सङ्क-
र्षणादयः कार्यम्, तमित्थम्भूतं भगवन्तम भिगमनोपादानेज्यास्वाध्याययोगैर्वषेशत-
मिष्टाट्वा भगवन्तमेव प्रतिपद्यन्ते' इति भगवदाचार्यैरुपदिष्टम् । अहर्मुखं
ष:षःकाल:लः तस्मिन् विलसन् प्रकाशमानो य आम्रस्य चूतवृक्षस्य पल्लव:वः किसलयं
स इव उल्लसितुं प्रकाशितुं शीलं यस्य स उल्लासी । ताच्छीलिको णिनिप्रत्ययः ।
तस्मिन् दन्तच्छदे ओष्ठे प्रकीर्णतया विक्षिप्ततया सन्ध्याया अयं सान्ध्यः स
चासौ यो रागः तेन सम्मूर्च्छिता व्यतिकृता, मिळितेति यावत् । या चन्द्रिका

ज्योत्स्ना तस्या उद्गारः प्रसरः । 'निगारोद्गारविक्षाव' इत्यमरः । तमनुकर्तुं
शीलं यस्य तत्तथाभूतेन मन्दस्मितेन । 'सोत्प्रासस्तु मनाक्स्मितम् इत्यमरः ।
कलि:
कलिः कलियुगं तस्मिन् तेन वा कलुषा:षाः मलिना:नाः ये जीवानां प्राणिनां
आशया:याः अशेरते संस्कारा एष्विति व्युत्पत्त्या मनांसीत्यर्थः । तेषां प्रसादनाय
निर्मलीकरणाय कतका:काः जलशोधकबीजविशेषाः, तेषां रेणुभि:भिः परागैरिव
स्थितैः यथा कतकरेणव:वः कर्दमांशमपनुद्य जलं निर्मलयन्ति तथा भगवत्कटाक्षा
अपि कलिकालुष्यांशमपनुद्य जीवाशयान्निर्मलीकुर्वन्तीति भाव:वः । कलितः कृतः
नानावर्णानां शुक्लपीतादीनां विन्यासः स्थितिः तेन पेशलै:लैः रमणीयैः कैवल्य
मुक्तिरेव लक्ष्मी:मीः सौभाग्यदेवता तस्यास्स्वयंवरदामानि स्वयंवरणार्थमालाः तैरिव
स्थितैः । कैवल्ये सति परापेक्षाराहित्यात्तस्य लक्ष्मीत्वमिति भावः । परिवहन्ती
या करुणा कृपा, तस्या आसारः प्रसरणं, तस्य सम्पातेन सम्बन्धेन शीतलैः ।
कृपारसमेळनात्कटाक्षाणां शीतलत्वमिति भावः । एवंविधैः कटाक्षैः न विद्यते