2023-09-13 08:30:49 by Bharadwajraki
This page has been fully proofread twice.
नां पाण्डरेण सरोरुहेण मण्डितनाभिमण्डलम्, निर्मलचिन्मयवपुषि नित्यानुबिम्बितेन मृगमदतिलकेनेव वक्षःस्थितायाः श्रियः श्रीवत्सेन हृदयादुद्भूते चन्द्रमसि स्पर्धया स्वयमपि हृदयादाविर्भवता बालसूर्येणेव कौस्तुभेन भूषयन्तमप्राकृतानि भूषणान्यपराणि, दिग्दन्तिशुण्डादण्डैरिव दिव्यतरुप्रकाण्डैरिव दुर्मददानवनिर्मथनयशोविशदैरिव मौक्तिकदामवेष्टितैर्विजयेन्दिरासमाश्लिष्टैरिव विचित्रकनकाङ्गदकङ्कणा-
[commentary]
पाण्डरेण धवळेन सरोरुहेण पद्मेन मण्डितमलङ्कृतं नाभिमण्डलं नाभिदेशो यस्य स तथाभूतम् । निर्मलं मलरहितं तच्च तच्चिन्मयं चिद्रूपञ्चेति कर्मधारयः । तथाभूते पुषषि देहे नित्यमनवरतमनुबिम्बितेन प्रतिबिम्बितेन वक्षसि स्थिताया लक्ष्म्याः मृगमदः कस्तूरी तद्रचिततिलकललामेनेव स्थितेन श्रीवत्सेन लाञ्छनेन । 'श्रीवत्सो लाञ्छनं मतम्' इत्यमरः । हृदयात् मनसः उद्भूते उत्पन्ने चन्द्रमसि चन्द्रे । 'चित्तं तु चेतो हृदयं स्वान्तम्' इत्यमरः । तस्मात् । 'चन्द्रमा मनसो जातः' इति श्रुतेः । स्पर्धया चन्द्राभिभवेच्छया स्वयमपि हृदयात् हृदयदेशादाविर्भवता आविर्भावं कुर्वता बालसूर्येणेव स्थितेन कौस्तुभेन तन्नामकमाणिक्येन । अपराण्यन्यानि । प्रकृतौ भवानीत्यर्थे प्रकृतिशब्दात् 'तत्र भवः' (४.३.५३) इति सूत्रादण्प्रत्ययः । अथवा प्रकृतेरागतानीत्यर्थे 'तत आगतः' (४.३.७४) इत्यण्प्रत्ययः । प्रकृतिसम्बन्धीनीति यावत् । तानि न भवन्तीत्यप्राकृतानि प्रकृतिसम्बन्धरहितानीति फलितार्थः । भूषणानि कुण्डलाद्याभरणानि भूषयन्तं अलङ्कुर्वन्तं दिग्दन्तिनां दिग्गजानां शुण्डाः कराः दण्डा इवेत्युपमितसमासः । तैरिव स्थितैः दिव्यतरूणां कल्पवृक्षाणां प्रकाण्डाः स्कन्धाः । 'अस्त्री प्रकाण्डस्स्कन्धस्स्यात्' इत्यमरः । तैरिव स्थितैः । किञ्च मौक्तिकाः मुक्ताफलानि तेषां दामभिर्मालाभिर्वेष्टितैः वलयितैः अतएव दुर्मदाः मत्ताः ये दानवाः मधुकैटभादयः तेषां निर्मथनेन निहननेन यद्यशः तेन विशदैः धवळैरिव स्थितैः । विचित्राणि विस्मयकराणि यानि कनकमयानि अङ्गदकङ्कणादीनि केयूरकरभूषणादीनि तैरलङ्कृतैरत एव विजयेन्दिरया विजयलक्ष्म्या समाश्लिष्टैरालिङ्गितैरिव स्थितैः चतुर्भिः भुजैः चत्वारः वासुदेवसङ्कर्षणप्रद्युम्नानिरूद्धनामानः व्यूहाः यस्य सः तस्य भावस्तत्ता तां सूचयन्तमिव ज्ञापयन्तमिव स्थितम् । शारीरकभाष्ये द्वितीयाध्यायद्वि-