This page has not been fully proofread.

द्वितीयाश्वासः
 
नां पाण्डरेण सरोरुहेण मण्डितनाभिमण्डलम्, निर्मलचिन्मयवपुषि
नित्यानुबिम्बितेन मृगमदतिलकेनेव वक्षःस्थितायाः श्रियः श्रीवत्सेन
हृदयादुद्भूते चन्द्रमसि स्पर्धया स्वयमपि हृदयादाविर्भवता बाल-
सूर्येणेव कौस्तुभेन भूषयन्तमप्राकृतानि भूषणान्यपराणि, दिग्दन्ति-
गुण्डादण्डैरिव दिव्यतरुप्रकाण्डैरिव दुर्मददानवनिर्मथनयशोविशदैरिव
मौक्तिकदामवेष्टितैर्विजयेन्दिरासमाश्लिष्टैरिव विचित्रकनकाङ्गदकङ्कणा-
पाण्डरेण धवळेन सरोरुहेण पद्मेन मण्डितमलड्कृतं नाभिमण्डलं नाभिदेशो यस्य
स तथाभूतम् । निर्मलं मलरहितं तच्च तच्चिन्मयं चिद्रूपञ्चेति कर्मधारयः ।
तथा पुष हे नित्यमनवरतमनुबिम्बितेन प्रतिबिम्बितेन वक्षसि स्थि-
ताया लक्ष्म्याः मृगमद: कस्तूरी तद्रचिततिलकललामेनेव स्थितेन श्रीव-
त्सेन लाञ्छनेन । 'श्रीवत्सो लाञ्छनं मतम्' इत्यनरः । हृदयात् मनसः
 

 
उद्भूते उत्पन्ने चन्द्रमसि चन्द्रे । 'चित्तं तु चेतो हृदयं स्वान्तम्' इत्यमरः ।
तस्मात्। 'चन्द्रमा मनसो जातः' इति श्रुतेः । स्पर्धया चन्द्राभिभवेच्छया स्वय-
मपि हृदयात् हृदयदेशादाविभवता आविर्भाव कुर्वता बालसूर्येणेव स्थितेन
कौस्तुभेन तन्नाम कमाणिक्येन । अपराण्यन्यानि । प्रकृतौ भवानीत्यर्थे प्रकृ-
तिशब्दात् 'तत्र भव:' (4-3-53) इति सूत्रादणप्रत्ययः । अथवा
प्रकृतेरागतानीत्यर्थे 'तत आगतः' [4-3-74] इत्यणप्रत्ययः । प्रकृतिसम्बन्धीनीति
यावत् । तानि न भवन्तीत्यप्राकृतानि प्रकृतिसम्बन्ध रहितानीति फलितार्थः ।
भूषणानि कुण्डलाद्याभरणानि भूषयन्तं अलङ्कुर्वन्तं दिग्दन्तिनां दिग्गजानां शुण्डाः
करा: दण्डा इवेत्युपमितसमासः । तैरिव स्थितैः दिव्यतरूणां कल्पवृक्षा-
णां प्रकाण्डाः स्कन्धाः । 'अस्त्री प्रकाण्डस्कन्धस्स्यात्' इत्यमरः । तैरिव
स्थितैः । किञ्च मौक्तिकाः मुक्ताफलानि तेषां दामभिर्मालाभिर्वेष्टितैः वलयितैः
अतएव दुर्मदा: मत्ता: ये दानवाः मधुकैटभादयः तेषां निर्मथनेन निहननेन
यद्यशः तेन विशदैः धवळैरिव स्थितैः । विचित्राणि विस्मयकराणि यानि कनक-
मयानि अङ्गदकङ्कणादीनि केयूरकरभूषणादीनि तैरलङ्कृतैरत एव विजये-
न्दिरया विजयलक्ष्म्या समाश्लिष्टैरालिङ्गिरिव स्थितैः चतुर्भिः भुजैः चत्वारः
वासुदेवसङ्कर्षणप्रद्युम्नानिरूद्धनामान: व्यूहाः यस्य सः तस्य भावस्तत्ता तां
सूचयन्तमिव ज्ञापयन्तमिव स्थितम् । शारीरकभाष्ये द्वितीयाध्यायद्वि-