This page has been fully proofread once and needs a second look.

च परिष्कृताभ्यां पादकमलाभ्यामलंकुर्वाणमङ्कतलमादिजनन्योर्लक्ष्मीधरण्योः, कटितटाबद्धकनकांशुकप्रभातरङ्गपरिष्वङ्गपिशङ्गीकृतवसुमतीकमलाविवेचनाचतुरतत्तत्परिचा- रिकोपचारविपर्यासपरिहासविनोदिनम्, आविर्भविष्यदसङ्ख्यहिरण्यगर्भाङ्कुरमयमणिशताचितकर्णिकेन प्रतिसर्गावर्तमानप्रकृत्यादिधरण्यन्ततत्त्वकिञ्जल्कपुञ्जेन प्रपितामहेन भुवना-
 
[commentary]
 
एव कान्तारः तस्मिन् सञ्चरणं गमनागमनलक्षणं तेन खिन्नाः खेदवन्तो ये शारीरकाश्शरीरमाश्रित्य वर्तमाना जीवाः तेभ्यः छायाया अनातपस्य प्रदानाय जीवानां तापत्रयावतप्तत्वादिति भावः । समावर्जितेन सम्पादितेन छत्रेण रेखाभूतच्छत्रेण च परिष्कृताभ्यामलङ्कृताभ्यां पादौ कमले इवेति
'उपमितं व्याघ्रादिभिस्सामान्याप्रयोगे' (२.१.५६) इत्यनेन समासः । आदिजनन्योः प्रथममात्रोः लक्ष्मीधरण्योः श्रीभूदेव्योः अङ्कतलं ऊरुदेशं अलङ्कुर्वाणं विभूषयन्तम् । कटितटं श्रोणिदेशः तस्मिन्नाबद्धं यत्कनकांशुकं स्वर्णमयं चेलं तस्य प्रभायाः कान्तेर्ये तरङ्गाः परम्पराः तेषां परिष्वङ्गेण
सम्बन्धेन पिशङ्गीकृते ये वसुमतीकमले भूश्रीदेव्यौ तयोर्विवेचनायां इयं, श्रीरियं भूरिति विवेके अचतुराः अनिपुणाः यास्ततत्परिचारिकाः तयोः दूत्यः तासां सम्बन्धी य उपचारः तस्य विपर्यासः व्यत्यासः तस्मिन्विषये यः परिहासः तेन विनोदिनं चमत्कारिणमित्यर्थः । अचतुराणां कृत्यं दृष्ट्वा के वा चतुराः न चमत्कुर्वन्तीति भावः । आविर्भविष्यन्तः उद्भविष्यन्तः असङ्ख्याः पर्याप्तिरहिताः ये हिरण्यगर्भाः ब्रह्माणः तेषां यान्यङ्कुराणि तन्मयाः तद्रूपाः ये मणयः तेषां शतैरनेकैराचिता व्याप्ता
कर्णिका बीजकोशी यस्य तत् । 'कर्णिका कर्णभूषणे । करिहस्ताङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तर' इत्यमरः । तथाभूतेन प्रकृतिः प्रधानं प्रथमतत्त्वं सा आदिर्येषां तानीति तद्गुणसंविज्ञानबहुव्रीहिः । एवं धरणी पृथिवी चरमतत्त्वं सा अन्तः चरमा येषां तानीति पूर्ववत्समासः । तथाच प्रकृत्यादीनि धरण्यन्तानि च यानि तत्त्वानि ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकमनोबुद्ध्यहङ्कारचित्तान्तःकरणचतुष्टयप्राणपञ्चकसूक्ष्म- पञ्चभूतलक्षणानि एतान्येव किञ्जल्कपुञ्जः केसरसमूहो यस्य तत् । 'किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः । तेन भुवनानां लोकानां प्रपितामहेन । लोकजनकस्य पितामहस्यापि जनकत्वात्पद्मस्य प्रपितामहत्वमिति भावः ।