This page has been fully proofread once and needs a second look.

२६४
 
नीलकण्ठविजये सव्याख्याने
 
च परिष्कृताभ्यां
 
पादकमलाभ्यामलंकुर्वाणमङ्कतलमादिजनन्योर्लक्ष्मी-
धरण्योः, कटितटाबद्धकनकांशुकप्रभातरङ्गपरिष्वङ्गपिशङ्गीकृतवसुमतीकमलाविवेचनाचतुरतत्तत्परिचा-
कमलाविवेचनाचतुरतत्तत्परिचा
रिकोपचारविपर्यासपरिहासविनोदिनम्,
आविर्भविष्यदसङ्ख्यहिरण्यगर्भाङ्कुर मय मयमणिशताचितकर्णिकेन प्रतिसर्गा-
वर्तमानप्रकृत्य।यादिधरण्यन्ततत्त्किञ्जल्कपुञ्जेन प्रपितामहेन भुवना-

 
[commentary]
 
एव कान्तारः तस्मिन् सञ्चरणं गमनागमनलक्षणं तेन खिन्नाः खेदवन्तो
ये शारीरकाश्शरीरमाश्रित्य वर्तमाना जीवा:वाः तेभ्यः छायाया अनातपस्य
प्रदानाय जीवानां तापत्रयावतप्तत्वादिति भावः । समावर्जितेन सम्पादितेन
छत्रेण रेखाभूतच्छत्रेण च परिष्कृताभ्यामलङ्कृताभ्यां पादौ कमले इवेति

'उपमितं व्याघ्रादिभिस्सामान्याप्रयोगे' ( 2-1-56२.१.५६) इत्यनेन समासः । आदि-
जनन्यो:योः प्रथममात्रो:रोः लक्ष्मीरण्योः श्रीभूदेव्योः अङ्कतलं ऊरुदेशं अल-
ङ्कुर्वाणं विभूषयन्तम् । कटितटं श्रोणिदेशः तस्मिन्नाबद्धं यत्कनकांशुकं
स्वर्णमयं चेलं तस्य प्रभायाः कान्तेर्ये तरङ्गाः परम्पराः तेषां परिष्वङ्गेण

सम्बन्धेन पिशङ्गीकृते ये वसुमतीकमले भूश्रीदेव्यौ तयोर्विवेचनायां इयं,
श्रीरियं भूरिति विवेके अचतुरा:राः अनिपुणा:णाः यास्ततत्परिचारिकाः तयोः
दूत्यः तासां सम्बन्धी य उपचारः तस्य विपर्यासः व्यत्यासः तस्मिन्
विषये यः परिहास:सः तेन विनोदिनं चमत्कारिणमित्यर्थः । अचतुराणां
कृत्यं दृष्ट्वा के वा चतुराः न चमत्कुर्वन्तीति भावः । आविर्भविष्यन्तः
उद्भविष्यन्तः असङ्ख्याः पर्याप्तिरहिताः ये हिरण्यगर्भाः ब्रह्माणः तेषां यान्य-
ङ्कुराणि तन्मया:याः तद्रूपाः ये मणयः तेषां शतैरनेकैराचिता व्याप्ता

कर्णिका बीजकोशी यस्य तत् । 'कर्णिका कर्णभूषणे । करिहस्ताङ्गुलौ पद्मबीज-
कोश्यां त्रिषूत्तर' इत्यमरः । तथाभूतेन प्रकृतिः प्रधानं प्रथमतत्त्वं सा आदिर्येषां
तानीति तद्गुणसंविज्ञानबहुव्रीहिः । एवं धरणी पृथिवी चरमतत्त्वं सा अन्तः
चरमा येषां तानीति पूर्ववत्समासः । तथाच प्रकृत्यादीनि धरण्यन्तानि च यानि
तत्त्वानि ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकमनोबुद्ध्यक्ङ्कार चित्तान्तः करणचतुष्टयप्राण-
पञ्चकसूक्ष्म- पञ्चभूतलक्षणानि एतान्येव किञ्जल्कपुञ्जः केसरसमूहो यस्य तत् ।
'किञ्जल्क:कः केसरोऽस्त्रियाम्' इत्यमरः । तेन भुवनानां लोकानां प्रपितामहेन ।
लोकजनकस्य पितामहस्यापि जनकत्वात्पद्मस्य प्रपितामहत्वमिति भावः ।