2023-06-05 16:40:08 by ambuda-bot
This page has not been fully proofread.
२६४
नीलकण्ठविजये सव्याख्याने
च परिष्कृताभ्यां
पादकमलाभ्यामलंकुर्वाणमङ्कतलमादिजनन्योर्लक्ष्मी-
धरण्योः, कटितटाबद्धकनकांशुकप्रभातरङ्गपरिष्वङ्गपिशङ्गीकृतवसुमती-
कमलाविवेचनाचतुरतत्तत्परिचारिकोपचारविपर्यासपरिहासविनोदिनम्,
आविर्भविष्यदसङ्ख्यहिरण्यगर्भाङ्कुर मय मणिशताचितकर्णिकेन प्रतिसर्गा-
वर्तमानप्रकृत्य।दिधरण्यन्ततत्त्रकिञ्जल्कपुञ्जेन प्रपितामहेन भुवना-
एव कान्तारः तस्मिन् सञ्चरणं गमनागमनलक्षणं तेन खिन्नाः खेदवन्तो
ये शारीरकाश्शरीरमाश्रित्य वर्तमाना जीवा: तेभ्यः छायाया अनातपस्य
प्रदानाय जीवानां तापत्रयावतप्तत्वादिति भावः । समावर्जितेन सम्पादितेन
छत्रेण रेखाभूतच्छत्रेण च परिष्कृताभ्यामलकृताभ्यां पादौ कमले इवेति
'उपमित व्याघ्रादिभिस्सामान्याप्रयोगे' ( 2-1-56) इत्यनेन समासः । आदि-
जनन्यो: प्रथममात्रो: लक्ष्मीघरण्योः श्रीभूदेव्योः अङ्कतलं ऊरुदेशं अल-
कुर्वाणं विभूषयन्तम् । कटितटं श्रोणिदेशः तस्मिन्नाबद्धं यत्कनकांशुकं
स्वर्णमयं चेलं तस्य प्रभायाः कान्तेर्ये तरङ्गाः परम्पराः तेषां परिष्वङ्गेण
सम्बन्धेन पिशङ्गीकृते ये वसुमतीकमले भूश्रीदेव्यौ तयोविवेचनायां इयं,
श्रीरियं भूरिति विवेके अचतुरा: अनिपुणा: यास्ततत्परिचारिकाः तयोः
दूत्यः तासां सम्बन्धी य उपचारः तस्य विपर्यास व्यत्यासः तस्मिन्
विषये यः परिहास: तेन विनोदिन चमत्कारिणमित्यर्थः । अचतुराणां
कृत्यं दृष्ट्वा के वा चतुराः न चमत्कुर्वन्तीति भावः । आविर्भविष्यन्तः
उद्भविष्यन्तः असङ्ख्याः पर्याप्तिरहिताः ये हिरण्यगर्भाः ब्रह्माणः तेषां यान्य-
कुराणि तन्मया: तद्रूपाः ये मणयः तेषां शतैरनेकैराचिता व्याप्ता
कर्णिका बीजकोशी यस्य तत् । 'कर्णिका कर्णभूषणे । करिहस्ताङ्गुलौ पद्मबीज-
कोश्यां त्रिषूत्तर' इत्यमरः । तथाभूतेन प्रकृतिः प्रधानं प्रथमतत्त्वं सा आदिर्येषां
तानीति तद्गुणसंविज्ञानबहुव्रीहिः । एवं धरणी पृथिवी चरमतत्त्वं सा अन्तः
चरमा येषां तानीति पूर्ववत्समासः । तथाच प्रकृत्यादीनि धरण्यन्तानि च यानि
तत्त्वानि ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकमनोबुद्ध हक्कार चित्तान्तः करणचतुष्टयप्राण-
पञ्चकसूक्ष्मपञ्चभूतलक्षणानि एतान्येव किञ्जलकपुञ्जः केसरसमूहो यस्य तत् ।
'किञ्जल्क: केसरोऽस्त्रियाम्' इत्यमरः । तेन भुवनानां लोकानां प्रपितामहेन ।
लोकजनकस्य पितामहस्यापि जनकत्वात्पद्मस्य प्रपितामहत्वमिति भावः ।