2023-09-13 07:16:15 by Bharadwajraki
This page has been fully proofread twice.
शमधनानां निरन्तरावासनिर्वेदादिव भोगिनमेव कमपि भुवनतलाकल्पमास्तीर्य तल्पमधिशयानम्, अतिशयानम्रमौळिभिर्महायोगिभिः प्रणामावसरप्रकीर्यमाणेषु कुसुमोपहारेषु सौकुमार्यातिशयसंसक्तैः कतिपयैरिव कल्पतरुप्रसूनैश्चिरनिर्गतसिद्धसिन्धुशीकरशेषैरिव ततस्ततो
लग्नैर्नखरैर्निरर्गळापवर्गदानसंसूचनाय नियन्त्रितेनेव ध्वजेन संसारकान्तारसञ्चरणखिन्नशारीरकच्छायाप्रदानाय समावर्जितेनेव छत्रेण
[commentary]
भास्करः । शरीरमुद्दिश्य प्रवृत्तानि शारीराणि, तानि यानि कर्माणि कषायकल्कौषधादिलक्षणानि तेषां सम्प्रदायस्सदाचारः तस्य प्रवर्तकं प्रदर्शकम् । चिकित्साशास्त्रप्रणेतारमिति भावः । उक्तार्थे अभियुक्तवचनम् -- 'योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन । योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥' इति । भोगः वैषयिकसुखम् । यद्वा, भुज्यन्त इति व्युत्पत्त्या भोगाः विषयाः, तस्मिन् तेषु वा विमुखेषु पराङ्मुखेषु, निष्कामत्वादिति भावः । शमघनानां मुनीनां हृदयेषु अन्तःकरणेषु निरन्तरनिवासः सन्ततस्थितिः तेन यो निर्वेदो व्याकुलत्वं तस्मादिव भुवनतलस्य पाताळलोकस्य आकल्पमलङ्कारभूतं एकं भोगिनं फणिनमेव सुखिनं च । श्लिष्टरूपकमेतत् । तल्पं शय्याम् आस्तीर्य परिस्तीर्य । अत्र शेषलक्षणतल्पास्तरणे भगवतो निर्वेदो न हेतुः तस्मिन्सोऽप्यसिद्ध एव, तथापि तस्य तल्पास्तरणहेतुत्वोक्तेः हेतूत्प्रेक्षालङ्कारः । लक्षणं तु
'अहेतोर्हेतुभावेन कथनं हेतूत्प्रेक्षा' इति । अधिशयानं निद्राणमित्यर्थः । अतिशयेन आधिक्येन अत्यन्तमित्यर्थः । नम्राः विभुग्नाः मौळयः शिरांसि येषां ते तथाभूतैः प्रणतैरिति भावः । महान्तो ये योगिनः तैः कुसुमान्येव उपहाराः उपायनानि तेषु । प्रणामावसराः प्रणतिसमयाः तत्र प्रकीर्यमाणेषु प्रक्षिप्तेषु सत्सु । 'अर्चनानन्तरं भक्त्या प्रकीर्यं सुमसञ्चयम् । प्रदक्षिणनमस्कारौ कृत्वा स्तोत्रं पठेद्बुधः ॥' इति शास्त्रादिति भावः । सौकुमार्यातिशयेन मृदुत्वातिशयेन संसक्तैः सङ्क्रान्तैः कतिपयैः कल्पतरोः प्रसूनैः पुष्पैरिव स्थितैः ततस्ततः तत्र तत्रेत्यर्थः । लग्नैः संसक्तैः चिरनिर्गता या सिद्धसिन्धुर्मन्दाकिनी, तस्याश्शीकराः अम्बुकणाः, तेषां शेषैरिव स्थितैः । नखरैर्नखैः । निरर्गळं निर्निरोधं यथा तथा अपवर्गस्य मोक्षस्य दानं वितरणं तस्य संसूचनाय ज्ञापनाय नियन्त्रितेन प्रोत्क्षिप्य निबद्धेनेत्यर्थः । ध्वजेन रेखाकारेण केतुना । संसार